Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 18
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१३॥ RASSSSSSSSSSSS धर्म एव क्षितिपो राजा तस्य कटके सैन्ये अवस्कंदं प्रहरणं दातुमनसा प्रहरणं कर्तुं मनसेत्यर्थः ।। स्पर्श स्पर्श कथमिति ?।। अलं रलयोश्चैकत्वस्मरणात् अरं नास्ति रो रेफो यत्र तं अरं ।। रेफरहित स्पर्श स्पशं स्यादित्यर्थः ।।१६।। (वसंततिलका) पीनोन्नतं स्तनतटं मृगलोचनाया, आलोकसे नरहितं यदपूर्वमेतत् ॥ मोहान्धकारनिकरक्षयकारणस्य, विद्यास्तदस्ततटमेव विवेकभानोः ॥१७॥ यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वंद्वं पीनोन्नतं पीनं च तदुन्नतं च पीनोन्नतं पुनः नरहितं नरेभ्यो हितं पुनः अपूर्व प्रतिक्षणं चमत्कारहेतुत्वात् त्वं आलोकसे पश्यसि तत्स्तनतटं ।। विवेकमानोः विवेकसूर्य्यस्य अस्ततटं त्वं विद्याः ।। अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः ।। कथंभूतस्य विवेकभानोः ?।। मोहांधकारनिकरक्षयकारणस्य मोह एवांधकारस्तस्य यो निकरः समूहः तस्य क्षयकारणं तस्य मोहांध० ।। स्तनतटमिति विशेषणद्वयेन अस्ततटं साधयति नरहितं नेन नकारेण रहितं पुनः ।। अपूर्वं अः अकारः पूर्वो यस्य तत् अपूर्व ।। एतादृशं स्तनतटं अस्ततटं स्यादेवेत्यर्थः ।।१७।। ॥१३॥ Jain Education Intel For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40