Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार वैराग्य
तरंगिणी ॥३२॥
यः पुरुषः ज्ञानांजनं ज्ञानमेवांजनं प्रति निरादरतामुपैति ॥निरादरं करोति ।। कथंभूतो यः ? कामकामलविलुप्तविवेकचक्षुः ।। कामः स्मरः स एव कामलो नेत्ररोगस्तेन विलुप्तं विवेक एव चक्षुर्यस्य स कामकामलविलुप्त० ॥ अत एव स्वर्गापवर्गपुरमार्गमवीक्षमाणः स्वर्गो देवलोकोऽपवर्गो मोक्षः तावेव पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः हे भ्रातः भीमभवांधकूपे । भीमो भयानकः भवः संसारः स एव अंधकूपः तस्मिन् पतिष्यति यः कामलरोगग्रस्तचक्षुरंजनं प्रत्यादरं न करोति सोऽधकूपे पतत्येवेति ।।४४ ।।
(शिखरिणी) भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी, तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् ।। यतश्छायाप्येषां प्रथयति महामोहमचिरा-दयं जंतुर्यस्मात्पदमपि न गंतुं प्रभवति ।।४५॥
हे पुमन् भवारण्यं संसाराटवीं मुक्त्वा यदि मुक्तिनगरी शिवपुरी जिगमिषुः गंतुमिच्छुरसि तदानीं विषयविषवृक्षेषु विषया एव विषवृक्षास्तेषु वसतिं रतिं त्वं मा कार्षीः मा कुर्याः ।। यतो यस्मात् कारणात् एषां वृक्षाणां छायापिमहामोहं अचिरात् शीघ्रं प्रथयति विस्तारयति ।। विषयविषच्छायास्पर्शोऽपि वैचित्त्यकारको भवतीत्यर्थः ।। यस्मात् कारणात् अयं जंतुः प्राणी पदमपि पादमात्रमपि गंतुं गमनाय न प्रभवति न समर्थः भवति ।। यथारण्यं मुक्त्वा नगरी गंतुकामो नरो विषवृक्षाधो वसन् मत्तो भवति तदा पदमात्रमपि न गंतु शक्नोति ।। तद्वत् संसार मुक्ता मुक्तिमभिलषता पुंसा विषयसेवायां मतिर्न कार्येति तात्पर्य्य ।।४५।।
॥३२॥
Main Education inte
For Personat & Private Use Only
8
| www.jainelibrary.org
Loading... Page Navigation 1 ... 35 36 37 38 39 40