Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan
Catalog link: https://jainqq.org/explore/600199/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Il sitelenedaleena ontott: Il रचयिता: पूज्यपादाचार्य श्री विजय सोमप्रभसूरीश्वराः 6 संपादकः पूज्यपादाचार्य श्री विजय श्रेयांसप्रभसूरीश्वराणाम् विनेयः मुनि श्री सम्यग्दर्शनविजयः प्रकाशक: श्री स्मृति मन्दिर प्रकाशन : अहमदाबादः । Page #2 -------------------------------------------------------------------------- ________________ Jain Education Interna श्रीशृङ्गारवैराग्यतरंगिणी * रचयिता पू. आ. भ. श्रीमद् विजय सोमप्रभसूरीश्वराः * टीकाकार श्रीयुत् नंदलाल श्राद्धः * संपादक मुनि सम्यग्दर्शनविजय ॐ प्रकाशक श्री स्मृतिमन्दिर प्रकाशन For P अहमदाबाद Use Only Page #3 -------------------------------------------------------------------------- ________________ ॐ सूरिमन्त्रपंच प्रस्थान समाराधक ग्रन्थश्रेणी-२ (मुख्य लाभार्थी) . पू. मुनिराजश्री भव्यवर्धन वि.म. •पू. मुनिराजश्री मंगलवर्धन वि.म. * श्रीशृङ्गारवैराग्यतरंगिणी .पू. मुनिराजश्री हितवर्धन वि.म.ना सदुपदेशथी पोताना ट्रस्टना ज्ञानद्रव्यनो सदव्यय को छे. कुसुम-अमृत ट्रस्ट * प्रथम संस्करण तथा शातिनगर-वापीना आराधको (सहलाभार्थी) प्रसिद्ध प्रवचनकार पू.आ.म. श्री विजय श्रेयांसप्रभसूरि महाराजाओ सूरिमन्त्र पंचप्रस्थाननी सळंग ८४ दिवसीय, मौन अकांतवासपूर्वक ॐ नकल : १००० साधेल साधनानी अनुमोदनार्थे श्री भूतिबेन राजमल पौषधशाळाना ज्ञाननिधिनी रकमनो सद्व्यय कर्यो छे. आपनी श्रुतभक्ति अनुमोदनीय अने अनुकरणीय छे... ॐ प्रकाशन : २०६० वैशाख वद ४ श्री स्मृतिमन्दिर प्रकाशन, अहमदाबाद सूरिमंत्राराधन समापन समारोह (.प्रकाशक) गिरधरनगर, अहमदाबाद. श्री स्मृति मंदिर प्रकाशन रमेशभाई-दिनेशभाई जैन १२, स्वस्तिक अपार्टमेन्ट, शांतिनगर, आश्रम रोड, * संपादक : मुनि सम्यग्दर्शनविजय roParsoजैन देरासर सामे, अमदावाद-१३. फोन : 27551454 Jain Education Internet R ww.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन........ सूरिमन्त्राराधन समापन समारोहे भारतवर्षविभूषण, तपागच्छशिरताज, पू.आ.भ. श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजानी पावन स्मृतिमां २०५८ना स्मृतिमन्दिर प्रतिष्ठा महोत्सववर्षे संस्थापित, श्री स्मृतिमन्दिर प्रकाशन उत्तरोत्तर प्रगति साधतु, चालु वर्षे प्रशांतमूर्ति, पू.आ.भ. श्री विजय नरचन्द्रसूरीश्वरजी महाराजानी पावननिश्रामां प्रसिद्ध प्रवचनकार, पू.आ.भ. श्री विजय श्रेयांसप्रभसूरीश्वरजी महाराजाओ राजनगर अमदावादना गिरधरनगर मुकामे आदरेल सळंग ८४ दिवसना मौन अने ओकांतवास साथे सूरिमन्त्रपंचप्रस्थान समाराधन समापन दशाह्निका समारोहना पावन प्रसंगे नव प्रकाशनो पैकीना श्रीशृङ्गारवैराग्यतरंगिणी ग्रंथ-प्रकाशन करतां संपादक पूज्यश्रीना उपकारने तथा लाभार्थी अने मुद्रणकर्ता महानुभावोना हार्दिक आभारनी स्वीकृति साथे श्रीसंघना चरणे आ ग्रंथने समर्पित करतां अमो धन्यतानी लागणी अनुभवीओ छीओ। - श्री स्मृतिमन्दिर प्रकाशन अमदावाद Jain Education Inter For Personal & Private Use Only www.janelibrary.org Page #5 -------------------------------------------------------------------------- ________________ प्रास्ताविकम्..... ऐं नमः ऐन्द्रवृन्दनतजिनपादपीठोपलोठितमौलिमालास्थितरत्नावली भासुरचरण-कमलासन्नोपकारकृत् श्रीवीरस्य शासनमविरतजलप्रवाहसन्निभं प्रोह्यते सुविहितसूरिपुरन्दरैः भगवन्निर्वाणानन्तरम् तस्य च द्विसहस्रमितत्रिंशदधिकपञ्चशतानि वर्षाणि जातानि । एतावत्कालमध्ये प्रभूताः सूरिपुङ्गवाः जिनशासनप्रभावकाः संजाताः । तैश्च भव्योपहिताय नेकशास्त्रग्रन्थाः संरचिताः । तद्वदयं ग्रंथोऽपि । श्री सोमप्रभसूरीश्वरः आत्मशिष्योपकाराय ग्रथितः । श्लोकसंख्याभिः लघुतरोऽप्ययं ग्रन्थः रचनासौन्दर्य - गांभीर्य- भाषासौष्ठवालंकारादिभावै वैराग्यभावैकप्रदीपप्रज्वलितकारितया च प्रभूततरबोधप्रदायकः भविष्यति । यतः संसारसागरे निमज्जज्जन्तुनां विषयोपभोगलिप्सा प्रबलतरा शास्त्रज्ञैः व्यावर्णिता । तेषु च विषयोपभोगेषु स्त्रीसंग ः प्रकामं आसक्तिकारणमस्ति । ततः तत्संग: विचक्षणैः सुदूरदर्शिभिः निराकर्तव्यम् । यदुक्तं "स्त्रीः रक्ताविरक्ताश्चेत् मारत्येव" । ततः अस्मिन् ग्रन्थे स्त्रीणां दूरन्तता प्रदर्शिता । तस्याः च देहावस्थितानि नेत्रौष्पुट - नासिका - कर्ण - केश-मुख-स्तन- स्कंध - कराडुली - दन्त - नखोदर - नाभि- जघनोरुस्थल -पाद-चरणाद्यङ्गोपाङ्गानिकल्पित क्षण- तुच्छसुखानन्तदुःख परंपराकारणीभूतानि प्रभवन्ति । ततः अस्मिन् ग्रन्थे तदङ्गानां नीरसतां, अदर्शनीयतां अस्पृश्यतां प्रदर्श्य प्रभूतोपमोपमेयभावैरङ्गानां दूरतः त्याज्याः इति सुष्ठुभाषया निदर्शितम् । असौ ग्रन्थः यदा मयकया दृष्टो पठितो तदा च तस्य जीर्णतां दृष्टवा मम हृदये पुनर्मुद्रणेच्छा संजाता । तातपाद-प्रतिद्धप्रवचनकार गुरुदेवाचार्य विजयश्रेयांसप्रभसूरीश्वराज्ञाशिषतया च प्रारब्धम् तद्कार्यमद्य समापनमभूत् । तदवसरे नान्याऽऽशा किन्तु भव्यात्मानोऽस्य ग्रन्थस्य पठन-पाठनतया वैराग्यभावप्रवृद्धिम् प्राप्य शीघ्र सकलसंक्लेशव्यच्छित्ति कारकमपवर्गम् प्राप्नुयादित्याशास्ते । मम यत्कार्योपार्जित-पुण्येन ज्ञानादिवृद्धिश्चापवर्गसुखप्राप्तिः भवत्वित्यन्तरेच्छा । - तातपद गुरुदेवाचार्य श्रीयुत् विजय श्रेयांसप्रभसूरि चरणरेणु-सम्यग्दर्शनविजयोमुनिः Page #6 -------------------------------------------------------------------------- ________________ [श्रीशृङ्गारवैराग्यतरंगिणी] श्री शृङ्गार वैराग्य तरंगिणी 19॥ RSAA3% (उपजाति) ॐनमोऽर्हद्यः ॥ श्रीपार्श्वनाथं प्रणिपत्य भक्त्या । पुरि स्थितं, श्रीफलवर्द्धिकायाम् ।। शृंगारवैराग्यतरंगिणी या । व्याख्यानतो व्याक्रियते मया सा ॥१॥ श्रीसोमप्रभाचार्याः वैराग्यवासनया शृंगारं दूषयन्तः शृङ्गारवैराग्यतरंगिणीनामानं ग्रंथं कर्तुकामाः स्त्रीरूपं निंद्यमिति प्रतिपादयन्त ऊचुः ।। (शार्दूलविक्रीडितम्) धर्मारामदवामिधूमलहरीलावण्यलीलाजुष,स्तन्वंग्या यमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे ।। व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमाल न्मत्वा दूरममून् विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥१॥ धारामेति अहो इत्याश्चर्ये ।। तन्वंग्याः तनुः सूक्ष्ममंगं यस्याः सा तन्वंगी तस्याः स्त्रिया यमितान् बद्धान् वालान् केशान् विलोक्य दृष्ट्वा किमुत्कण्ठसे किं उत्कंठां करोषि ।। कथंभूतान् वालान् ? | 'धर्माराम 11191॥ Jain Education Intern For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR|| स्वस्य कुशल काना युक्तमेव । दूरं विनितोऽपि मुक्तिनगरप्रस्मस्य दर्शनादेव गमने। दवामिधूमलहरीलावण्णलीलाजुषः' । धर्म एव आरामो वनं तत्र यो दवानिर्दावानलः तस्य या धूमलहरी धूमश्रेणिः तस्या यल्ला-वण्यं श्यामत्वं तस्य लीलां जुषन्ते सेवन्ते इति लीलाजुषः तान् ॥जुषी प्रीतिसेवनयोर्धातुः ।। दवाग्निधूमपंक्तिसदृशानित्यर्थः ।। अथ वैराग्यरसेन शृङ्गारं दूषयति ।। रे मनुष्य यदि त्वं आत्मनः स्वस्य कुशलं कल्याणं वाञ्छसि तदा अमून् वालान् व्यालान् सन्मित्वा कृष्णवर्णत्वाल्लंबायमानत्वाच्च सर्पसादृश्यं वालानां युक्तमेव । दूरं विमुञ्च दूरतस्त्यज इत्यर्थः ।। सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूरं पलायस्वेत्यर्थः ।। किंभूतान् वालान् ?।। दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमान् ।। मुक्तिरेव नगरं तत्र यत् प्रस्थानं गमनं तत्र विघ्नाय विघ्नं कर्तुं क्षमाः समर्थास्तान् ।। सर्पस्य दर्शनादेव गमने विघ्नसमुत्पत्तिरिति शकुनशास्त्रे प्रसिद्धं ।। तन्वंग्या यमितान्वालान् व्यालान् जानीहि ।। तथाहि श्लेषार्थोऽयं ।। यकारं इताः प्राप्ताः संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालानां व्यालत्वं ।।१।। (शार्दूलविक्रीडितम्) ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा,भ्रंशांभोदसहोदरास्तव सखे ! चेतश्चमत्कारिणः ।। क्लेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे,!चेत कष्टपरंपरापरिचितः शोच्यां दशामेष्यसि IR|| IRI Jain Education Inter For Personal & Private Use Only m Page #8 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३॥ हे सखे सरोरुहदृशां सरोरुहाणि कमलानीव दृशो नेत्राणि यासां ताः सरोरुहदृशस्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशाः तव चेतश्चमत्कारिणः चित्तप्रसत्तिकारिणः वर्तन्ते इति शेषः ।। किंभूताः केशाः? ।। चारित्रचन्द्रप्रभादंशांभोदसहोदराः । चारित्रमेव चंद्रप्रभा ज्योत्स्ना तस्या भ्रंशे नाशने अंभोदो मेघस्तस्य सहोदराः सदृक्षाः ।। केशानां श्यामत्वादंभोद- सदृशत्वं ।। तान् केशान् मूर्तिमतश्चक्षुरिंद्रियगम्यान् ।। क्लेशान नियतं निश्चयेन अवगम्य बुद्ध्वा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः ।। नोचेदिति ।। यदि न त्यजसि तदा त्वं शोच्या शोचनीयां दशामवस्थामेष्यसि प्राप्स्यसि ।। किंभूतस्त्वं?|| कष्टपरंपरापरिचितः कष्टानां या परंपरा श्रेणिः तया परिचितः युक्तः ।। स्त्रीणां केशान् क्लेशान् ज्ञात्वा त्यजेत्यर्थः ।। केशाः क्लेशाः कथं स्युरिति प्रश्ने । लसिताः लेन लकारेण सिता बद्धाः केशाः क्लेशा भवंतीत्यर्थ ।।२।। (वसंततिलका) ये शुद्धबोधशशिखंडनराहुचण्डाश्चित्तं हरन्ति तव वक्रकचाः कृशांग्याः ॥ ते निश्चितं सुकृतमय॑विवेकदेहनिर्दारणे ननु नवक्रकचाः स्फुरन्ति ॥३॥ हे पुमन् ! कृशांग्याः स्त्रियाः कृशं सूक्ष्म अंग यस्याः सा तस्याः ये वक्रकचाः वक्रकेशास्तव चित्तं हरन्ति ।। तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः ।। कथंभूताः वक्रकचाः ? ॥शुद्धबोध शशिखण्डनराहुचण्डाः । शुद्धबोधो निर्मलज्ञानं स एव शशी तस्य खण्डनेऽर्थात्कवलने राहुरिव चंडाः क्रूराः शुद्धबोध० ।। फलितार्थस्तु राहुर्यथा ॥३॥ lain Education inter For Personal & Private Use Only || Page #9 -------------------------------------------------------------------------- ________________ * श्री शृङ्गार वैराग्य तरंगिणी ४॥ SHASHRSHASHRSHASH चंद्र ग्रासीकरोति तथा एते वक्रकचा ज्ञाननाशका इत्यर्थः ।। ननु निश्चितं ते वक्रकचाः सुकृतमर्त्यविवेकदेहनिर्दारणे । सुकृतमेव मर्त्यस्तस्य यो विवेक एव देहस्तस्य निर्दारणे नवक्रकचाः नवाश्च ते क्रकचाश्च नवक्रकचाः नूनं करपत्राणि ।। क्रकचं पुनपुंसकं ।। करपत्रं चेति नाम कोशः ।। स्फुरन्ति स्फुरद्रूपा वर्तन्ते इत्यर्थः ।। अत्र क्रकचाः नवक्रकचा इति भिन्नश्लेष एव चमत्कारः ।।। (उपेन्द्रवजा) अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदं ।। वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ।।४।। अस्याः नायिकायाः कुन्तलभार बद्धकेशसमूहं ।। कुन्तलाः संयता ये स्युरिति कोशः ।। विलोक्य लोकः प्रमोदं हर्षं कुरुते ।। कथंभूतं कुन्तलभारं?। अलंकृतं पुष्पादिना संस्कृतं ।। अमुं कुन्तलभारं कुंतभारं कुंतः प्रासोऽथमुद्गर इति नामकोशः ।। किं न पश्यसि ।। कथंभूतं कुन्तभारं ?।। वैराग्यवीरच्छिदुरं वैराग्यमेव वीरः सुभटस्तस्य छिदुरः छेदनशीलः तं ।।पुनः कथं० कुन्तभारं ?||दुरन्तं दुष्टमन्तं प्रान्तं यस्य तं ।। अन्ते तीक्ष्णत्वात् दुःसहमित्यर्थः ।।कुन्तलभारः कुन्तभारः कथं स्यात् ?।। न विद्यते लः लकारो यस्य सोऽलस्तं अलंकृतं विहितं ।। लकाररहितः कुन्तलभारः कुन्तभारः स्यादेवेत्यर्थः ।।४।। Jain Education Intern For Personal & Private Use Only Il www.ainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥५॥ (वसंततिलका) कस्तूरिकातिलकितं तुलिताष्टमींदु, चित्ते विचिन्तयसि सौख्यनिमित्तमेकं ।। वामध्रुवां यदलिकं तदहो अलीक,-मित्याख्ययैव परया प्रवदन्ति रूपं ॥५॥ वामध्रुवां स्त्रीणां यत् अलिकं ललाटं एकमद्वितीयं सौख्यनिमित्तं सुखकारणं चित्ते विचिन्तयसि ।। कथंभूतं अलिकं ?।। कस्तूरिकातिलकितं तिलकं जातं यस्य तत्तिलकितं कस्तूरिकया तिलकितं ।।पुनः कथंभूतं अलिकं ?।। तुलिताष्टमींदु तुलितोऽष्टम्या इंदुर्येन तत् अष्टमीचन्द्रसदृशमित्यर्थः ।। अहो इत्याश्चर्पा ।। तदलिकम् परया अन्यया आख्यया नाम्ना अलीकमिति रूपंवदन्ति बुधाः ॥गोधिर्ललाटालिके चालीकं श्रवणमस्त्रियामिति नामकोशः ।। अलिकं अलीकमित्युभयनाम ललाटस्य ।। अलीकं मृषा वचः ।। अलिकं अलीकं मिथ्या जानीहीत्यर्थः ।।५।। (इंद्रवज्रा) न भूरियं पंकजलोचनायाश्चकास्ति शृंगाररसैकपात्रं ।। भूः किंत्वसौ साधुतरा प्रसूते निबंधनं मोहविषद्रुमस्य ॥६॥ पंकजलोचनायाः कमलाक्ष्याः इयं भ्रून चकास्ति न शोभते ॥कथंभूता भ्रूः ?|शृंगाररसैकपात्रं शृंगाररसस्य एकमद्वितीयं पात्रं स्थानं ।। अजहल्लिंगत्वान्नपुंसकत्वं ।। किं त्वसौ भ्रूः साधुतरा अतिशयेन साध्वी साधुतरा ।। ॥५॥ Jain Education Interril For Personal & Private Use Only ll Page #11 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥६॥ Jain Education Inten तरतमेति पुंवद्भावः ।। श्रेष्ठतरा भूः भूमिः सा मोहविषद्रुमस्य मोह एव विषद्रुमस्तस्य निबंधनं आविर्भावं प्रसूते उत्पादयति ।। भ्रूर्भूः कथमिति प्रश्ने सा प्रसिद्धा भ्रूः । धुतरा ।। धुतो गतो रो रेफो यस्या ईदृशी भ्रूर्भूर्भवतीत्यर्थः ।।६।। (मालिनी) नवकुवलयदामश्यामलान् दृष्टिपातान् कृतपरमदनाशान् विक्षिपत्यायताक्षी ॥ इति वहसि मुदं किं मोहराजप्रयुक्तान् प्रशमभटवधार्थं विद्ध्यमून्ॠष्टिपातान् ॥७॥ आयताक्षी ।। आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा मामुद्दिश्य दृष्टिपातान् कटाक्षान् विक्षिपति प्रयुङ्क्ते ।। किंविशिष्टान् दृष्टिपातान् ? ।। नवकुवलयदामश्यामलान् । नवानि यानि कुवलयानि तेषां दाम माला तद्वत् श्यामलाः कृष्णास्तान् श्यामलान् ।। पुनः किंविशिष्टान् दृष्टिपातान् ? ।। कृतपरमदनाशान् कृतः परमदस्य नाशो यैस्तान् ।। इति मुदं हर्षं किं वहसि प्राप्नोषि अमून् दृष्टिपातान् प्रशमभटवधार्थं प्रशमः शान्तिभावः स एव भटः तस्य वधार्थं ॥ मोहराजप्रयुक्तान् मोह एव राजा मोहराजः ।। राजाहः सखिभ्यष्टच् समासतः । तेन प्रयुक्तान् ऋष्टिपातान् तरवारिपातान् । तरवारिरपि द्वौ च ऋटिरिष्टी अषंडकाविति नामकोशः ॥ विद्धि जानीहि ।। दृष्टिपातान् ऋष्टिपातान् जानीहि ।। तत्कथं ।। कृतपरमदनाशान् । कृतः परमः For Personal & Private Use Only |||६ ॥ Page #12 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥७॥ RAHARASHARBARABASA सर्वात्मना दस्य दकारस्य नाशो यत्र ते कृतपरमदनाशास्तान् ।। दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव ।। (शार्दूलविक्रीडितम्) तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः, संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्त्यजेः ।। एतस्मिन्वसता मनोभवमहासर्पण दष्टः पुमान, कार्याकार्यविवेकशून्यहृदयः कस्को न संजायते ॥८॥ हे सखे तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं स्मरन् स्मृतिविषयं कुर्वन् त्वं आत्मनः स्वस्य संतापं वितनोषि विस्तारयसि ।। कथंभूतं आननं ?॥कोपपदं कोपस्य पदं स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञात्वा त्वं त्यजेः ।। एतस्मिन्कानने वसता स्थितिं कुर्वता मनोभवमहासर्पण मनोभव कामः स एव महासर्पस्तेन पुमान् दष्ट सन् कस्कः ।। सर्वस्य द्वे इति द्वित्वं ।। कस्कादित्वात्सत्वं । कार्याकार्यविवेकशून्यहृदयः । कार्यं चाकार्यं च कार्याकार्ये तयोर्विवेकस्तेन शून्यं हृदयं यस्य स तथा न संजायते ।। सर्पविषेण मूर्च्छितः पुमान् शून्यहृदयो भवति ।। अयं तु महासर्पण दष्टस्तस्य किं वाच्यं ।। आननं काननं कथमिति प्रश्ने । आननं कोपपदं कः ककार उपपदं यस्य तदा काननं स्यादेवेत्यर्थः ।।८।। ॥७॥ Jain Education Intern For Personal & Private Use Only W w w.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥८॥ (उपजातिः) साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि ।। इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥९॥ हे मुग्धबुद्धे मुग्धा बुद्धिर्यस्य तत्संबोधनं तरुण्या मुखं आलोक्य किं मुदं हर्ष आदधासि धारयसि ।। कथंभूतं मुखं ?।। साकारं आकारेण सह वर्त्तमानं साकारं सुंदरमित्यर्थः ।। हि निश्चितं इदं मुखं विचक्षणैर्विद्वद्भिः चित्तभ्रमनाटकस्य चित्तभ्रम एव नाटकस्तस्य आमुखमाद्यारंभ आचचक्षे इत्यत्र कर्मणि लिट् ।। मुखम् आमुखं त्वित्थं ।। साकारं आकारेण सह वर्त्तमानं मुखं आमुखं स्यादित्यर्थः ।।९।। (वसंततिलका) कामज्वरातुरमते तव सर्वदास्य, वाम-वां यदि कथंचिदवाप्तुमिच्छा ।। यत्रं विनाप्यखिलजन्मपरंपरासु, तज्जातमेव भवतो ननु सर्वदास्यं ॥१०॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे काम० ॥ सर्वदा सर्वस्मिन्काले यदि तव वामध्रुवां स्त्रीणां आस्यं मुखं कथंचित्केनापि प्रकारेण अवाप्तुं प्राप्तुमिच्छा वर्त्तते । तदा ननु निश्चितं यलं विनापि अखिलजन्मपरंपरासु । जन्मनः परंपराः श्रेणयः अखिला या जन्मपरंपरास्तासु भवतस्तव सर्वदास्यं दासस्य भावो दास्यं सर्वेषां भृत्यत्वं जातमेव ।। स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव ।। अत्र पद्ये उभयत्र सर्वदास्यमिति पदस्य भिन्नार्थमेव चित्रं ।।१०।। ||॥८॥ Jain Education Internal or Personal & Private Use Only ||ww.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ९॥ (शार्दूलविक्रीडितम्) तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यजसा, मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रांत्या सदुर्ग वनं ।। तच्चात्यन्तमचारुबद्धवसतिर्येनात्ररागादिभि, श्चौरैर्धर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥११॥ यः पुमान् तस्याः स्त्रिया वदनं मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अंजसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे मुक्तिपथं मुक्तिमार्ग मुक्त्वा भ्रांत्या भ्रमेण दुर्ग दुःखेन गमनाहं वनं प्रविशति तद्वनं अत्यंतं अन्तमतिक्रान्तं अप्रमाणमित्यर्थः ॥कथंभूतः सः?||अचारुबद्धवसतिः न चारुरचारुः बद्धा वसतियेन सः । येन वनं प्रविशता पुरुषेण अत्र वने कष्टं किं न प्राप्यते ।। कस्मात् ? रागादिभिश्चौरर्धर्मधनापहारकरणात् ।। धर्म एव धनं धर्मधनं तस्यापहारः हरणं तस्य करणं तस्मात् ।। चौरा हि धनमपहृत्य वनं प्रविशन्ति तदा कष्टं स्पष्टमेव ।। तत्र वदनं कथं वनमिति प्रश्ने ।यः साधुः अदं सुष्ठु न विद्यते दकारो यस्मिन् तत् अदं ।। दकाररहितं वदनं वनं स्यादेव ।।११।। IIRI Jain Education Intern For Personal & Private Use Only ll Page #15 -------------------------------------------------------------------------- ________________ श्री शुमार वैराग्य तरंगिणी ॥१०॥ (पृथ्वीगुरु) यियाससि भवोदघेर्यदि तटं तदेणीदृशा,-महीनमधरं धरं परिहरेः परं दूरतः ॥ इहास्फलनतोऽन्यथा विशदवासनानौस्तव, व्रजिष्यति विशीर्णतां न भविता ततो वांछितं ॥१२॥ हे पुमन् यदि त्वं भवोदधेः संसारसमुद्रस्य तटं पारं यियाससि यातुमिच्छसि ।। यातेः सन्नतान्मध्यमपुरु पैकवचनरूपं ।। तदा एणीदृशां एणी हरिणी तस्या दृश इव दृशो यासां तास्तासां अधरं घरं पर्वतं दूरतो दूरात्परं त्वं परिहरेः ।। किंभूतमधरं?।। अहीनं परिपूर्ण अमृतादिना ।। अन्यथा यदि न परिहरसि तर्हि इह पर्वते आस्फलनतः संघटनात् तव विशदवासना निर्मलवासना एव नौः विशीर्णतां भंगतां व्रजिष्यति ततस्तद्वाछितं न भविता न भविष्यति ॥यथा समुद्रमध्ये पर्वतास्फलनान्नावि भग्नायां वांछितं न भवेत्तथेत्यर्थः ।। अधरं धरं कथमिति प्रश्ने उत्तरं ।। अहीनं एन अकारेण हीनं अधरं धरं स्यादेव ।। सानुमान् पर्वतो धरः ।। धरः शैलस्तथोदय इति कोशः ॥१२॥ (शिखरिणी) नभातीदं म्रातः स्फुरदरु णरत्नौघकिरण,-प्रतानं तन्वंग्यास्तरलतरलं कुण्डलयुगं ।। दमं दुग्धं पुंसामिह विरहसंयोगदशयो, ललच्छोकानंगज्वलनयुगिदं कुंडयुगलं ॥१३॥ हे भ्रातस्तन्वंग्याः कृशांग्याः इदं कुंडलयुगं कुंडलस्य कर्णाभरणस्य युगं न भाति न शोभते ॥ कथंभूतं ||॥१०॥ Jain Education Intern For Personal & Private Use Only O ww.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥११॥ कुंडलयुगं ?।। स्फुरदरुणरत्नौघकिरणप्रतानं स्फुरंतो देदीप्यमाना ये अरुणरत्नौघा रक्तरत्नसमूहास्तेषां ये किरणास्तेषां प्रतानं समूहो यस्मिंस्तत् ।।पुनः कथंभूतं कुंड०?| तरलतरलम् तरलाच्चंचला- त्तरलं चंचलं चंचलतरमित्यर्थः ।। कथंभूतं कुंडलयुगलं? विरहसंयोगदशयोः स्त्रीपुंसयोः संयोगाभावाद्विरहोत्पत्तिः विरहश्च संयोगश्च विरहसंयोगौ तयोर्दशे अवस्थे तयोः शोकानंगज्वलनयुक् शोकश्चानंगज्वलनश्च शोकानंगज्वलनौ ताभ्यां युक् विरहे शोकाविर्भावः संयोगे कामानेराविर्भाव इत्यर्थः ।। कुंडलयुगलं किं कुर्वन् ?।। इह संसारे पुंसां पुरुषाणां दममुपशमं दुग्धं पयः ।।ज्वलकुंडलयुगं कुंडयुगलं कथं तत्रोच्यते ।।तरलतरलश्चंचलतरः लो लकारो यस्मिन् ।। कुंडलशब्दालकारे कुंडलयुगस्य चंचलत्वात् युगशब्दात्परतः स्थिते सति कुंडयुगलं स्यादित्यर्थः ।।१३।। (अनुष्टुप) ताडकं सस्पृहं तस्याः, पश्यन्मूढः परे भवे ।। नरो नरकपालेभ्य, स्ताडं कं न सहिष्यते ॥१४॥ __ मूढो नरस्तस्याः स्त्रियाः सस्पृहं साभिलाषं यथा स्यात्तथा ताडकं कर्णभूषणं पश्यन् परे भवे आगामिभवे नरकपालेभ्यः नरकान् पालयन्ति ते नरकपालास्तेभ्यः परमाधार्मिकेभ्यः कं ताडं ताडनं ताड: आघातस्तं कं न सहिष्यते अपि तु सर्वं सहिष्यते ।।१४।। 199॥ Jain Education Interna For Personal & Private Use Only arww.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१२॥ गलं अर्गलं विपुणवेशव्याषेधं रचितो विनियमेन अमुंगलं अर्गलं नाव (वसंततिलका) सारंगलं यमरविंदविलोचनाना,-मालोक्य चेतसि मुदं कलयन्ति मूढाः ।। हा निश्चितं रचितमुक्तिपुरप्रवेश,-व्याषेधमर्गलममुं न विचारयन्ति ॥१५॥ मूबः मूर्खा नराः अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सारं श्रेष्ठंगलं निगरणं आलोक्य ॥चेतसि मुदं हर्षं कलयन्ति प्राप्नुवन्ति ॥ हा इति खेदे निश्चितम् नियमेन अमुंगलं अर्गलं न विचारयन्ति ।। कथंभूतं अर्गलं?|| रचितमुक्तिपुरखवेशव्याषेधं रचितो विहितो मुक्तिनगरप्रवेशस्य व्याषेधो निषेधो येन स तं रचित०॥ गलं अर्गलं त्विच्छं ।। सारं अराऽर्शब्देन सह वर्त्तते यः स सारस्तं सारं असंहितो गलः अर्गलः स्यादित्यर्थः ||१५|| (शिखरिणी) अलं प्राप्य स्पर्श कुचकलशयोः पंकजदृशां, परां प्रीतिं भ्रातः! कलयसि सुधामग्न इव किं ॥ अवस्कंदं धर्मक्षितिपकटके दातुमनसा, प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ।।१६॥ पंकजदृशां कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थं स्पर्श प्राप्य हे भ्रातः किं परामुत्कृष्यं प्रीतिं कलयसि प्राप्नोषि ।। क इव ।। सुधामग्न इव अमृते कृतमज्जन इव ।। इमं स्पर्श कलुषवरटेन कलुषं पापं तदेव वरटो भिल्लस्तेन प्रयुक्तं प्रेरितं स्पर्श हेरिकं त्वं जानीयाः ।। कथंभूतेन कलुषवरटेन ?||धर्मक्षितिपकटके For Personal & Private Use Only ॥१२॥ Jain Education inte Il Page #18 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१३॥ RASSSSSSSSSSSS धर्म एव क्षितिपो राजा तस्य कटके सैन्ये अवस्कंदं प्रहरणं दातुमनसा प्रहरणं कर्तुं मनसेत्यर्थः ।। स्पर्श स्पर्श कथमिति ?।। अलं रलयोश्चैकत्वस्मरणात् अरं नास्ति रो रेफो यत्र तं अरं ।। रेफरहित स्पर्श स्पशं स्यादित्यर्थः ।।१६।। (वसंततिलका) पीनोन्नतं स्तनतटं मृगलोचनाया, आलोकसे नरहितं यदपूर्वमेतत् ॥ मोहान्धकारनिकरक्षयकारणस्य, विद्यास्तदस्ततटमेव विवेकभानोः ॥१७॥ यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वंद्वं पीनोन्नतं पीनं च तदुन्नतं च पीनोन्नतं पुनः नरहितं नरेभ्यो हितं पुनः अपूर्व प्रतिक्षणं चमत्कारहेतुत्वात् त्वं आलोकसे पश्यसि तत्स्तनतटं ।। विवेकमानोः विवेकसूर्य्यस्य अस्ततटं त्वं विद्याः ।। अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः ।। कथंभूतस्य विवेकभानोः ?।। मोहांधकारनिकरक्षयकारणस्य मोह एवांधकारस्तस्य यो निकरः समूहः तस्य क्षयकारणं तस्य मोहांध० ।। स्तनतटमिति विशेषणद्वयेन अस्ततटं साधयति नरहितं नेन नकारेण रहितं पुनः ।। अपूर्वं अः अकारः पूर्वो यस्य तत् अपूर्व ।। एतादृशं स्तनतटं अस्ततटं स्यादेवेत्यर्थः ।।१७।। ॥१३॥ Jain Education Intel For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ||१४|| (शार्दूलविक्रीडितम्) कंदर्पद्विपकुम्भचारु णि कुचद्वंद्वे मृगाक्ष्या मया, न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मास्मभूः ॥ किं त्वाजन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां, हस्तोऽयंसुकृतस्य तस्य सहसाऽदायीति संचिंतयेः ॥१८॥ मया मृगाक्ष्याः स्त्रियाः कुचद्वंद्वे स्तनयुग्मे हस्तो न्यस्तः करः स्थापितः ।। कथंभूते कुचद्वंद्वे ? ।। कंदर्पद्विपकुंभचारुणि कंदर्प एव द्विपस्तस्य कुंभोगंडस्थलं तद्वच्चारु मनोज्ञं तस्मिन् कंदर्प० इति हेतोः प्रमोदमदिरामाधन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया माद्यन्मनो यस्य स एतादृशस्त्वं मास्मभूः ॥माङि लुडिति लुङ् न माड्योगे इत्यडागमाभावः ॥ किं तु बहुविधा तपोनुष्ठानादिरूपां कष्टक्रिया कष्टसाध्या क्रिया कष्टक्रिया तां क० ॥ अभ्यस्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्य यत् सुकृतमर्जितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः ।। यथा कस्य आजिगमिषोः हस्तप्रदानं संज्ञया निषेधयति तथा हस्तदानेन सुकृतं निषिद्ध इति त्वं संचिन्तयेः विचारयेरित्यर्थः ।। अत्र पद्ये हस्तो न्यस्तः सुकृतस्य हस्तोऽदायीति चित्रकृत् ।।१८॥ ||१४॥ Jain Education Interi For Personal & Private Use Only T Page #20 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१५॥ RSANSARASSASSASARAS (इंद्रवंश) कंठोपकंठे लुलितं विभावये, भुजं युवत्या भुजगं गराजितम् ।। एतस्य संस्पर्शवशादपि क्षणा,-दशेषचैतन्यमुपैति संक्षयम् ।।१९।। कंठोपकंठे कंठस्य गलस्य समीपे कंठोपकण्ठे लुलितं वलितं ।। युवत्याः स्त्रिया भुज बाहुं भुजगं सर्प त्वं विभावयेर्जानीयाः ।। कथंभूतं भुजगं । गराजित गरेण विषेण अजितो गराजितस्तं ॥ एतस्य भुजगस्य संस्पर्शवशात् स्पर्शमात्रेणापि अशेषं समस्तं चैतन्यं चेतनाया भावः क्षणात् संक्षयं नाशं उपैति प्राप्नोति यथा भुजगस्पर्शाच्चैतन्यं याति तथा युवत्या भुजस्पशदिव चैतन्यनाशः स्यादित्यर्थः ।। भुजं भुजगं कथं स्यादितिप्रश्ने । भुजं गराजितं ।। गेन गकारेण राजितं भुजं भुजगं स्यादित्यर्थः ।। १९।। (इन्द्रवजा) कण्ठावसक्ते कुपिते नवाहौ, वरं बहिःप्राणहरे प्रमोदः ॥ विध्वस्तधर्मान्तरजीविते नुः, स्त्रैणे नवाही विदुषां स युक्तः ॥२०॥ नुः पुरुषस्य नवाही नवश्वाऽसावहिश्च नवाहिस्तस्मिन्नवीनस कण्ठावसक्ते कण्ठस्थापिते वरं श्रेष्ठं ।। कथंभूते नवाहौ ?।। कुपिते क्रुद्धे ।। पुनः कथंभूते नवाहौ ?।। बहिःप्राणहरे ।। बहिःप्राणान् हरतीति १५॥ JainEducation internet For Personat & Private Use Only T Page #21 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१६॥ बहिःप्राणहरस्तस्मिन् बाह्यप्राणनाशके ।।स्टेणे स्त्रीणामयं स्त्रैणस्तस्मिन् ।।स्त्रीपुंसाभ्यां नस्नाविति नञ्प्रत्यये आदिवृद्धौ णत्वे स्त्रैणशब्दसिद्धिः ।। बाहौ भुजे कंठावसक्ते सति यः प्रमोदो हर्षः स विदुषां पंडितानां युक्तो न ।। कथंभूते बाहौ ?।। विध्वस्तधर्मान्तरजीविते विध्वस्तं नाशितं धर्म एव अन्तरजीवितं येन तस्मिन् ।। अन्तरप्राण-नाशके इत्यर्थः ।। अहिस्तु कंठावसक्तः सन् बहिःप्राणान्नाशयति स्त्रीणां बाहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते ।। अतः सादप्यधिकतरदुःखदं स्त्रीकृतालिंगनमित्यर्थः ।। अत्र नवाहावित्युभयत्र चित्रकृत् ।। वबयोरभेदस्तु आलंकारिकैरिष्ट एव ।।२०।। (वंशस्थ) कोयं विवेकस्तव यन्नतभ्रुवां, दोषावगूढः प्रमदं विगाहसे ।। यतः स्मरातंकपरीतचेतसां, किं सुंदरासुन्दरयोर्विवेचनम् ।।२१।। हे साधो अयं तव को विवेकः यत् नतभ्रुवां नते नम्रीभूते भ्रुवौ यासां ताः नतभ्रवस्तासां स्त्रीणां दोषा बाहुनाऽवगूढः आलिंगितः सन् त्वं प्रमदं प्रकृष्टमदं विगाहसे प्राप्नोषीत्यर्थः ।। यतो यस्मात् स्मरातंकपरीतचेतसां स्मरः कामः स एव आतंको रोगस्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुंदरासुंदरयोः समीचीनासमीचीनयोः किं विवेचनं ।। अपस्मारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव ।। पक्षे दोषैरवगूढो दोषावगूढोऽ विवेकदोषयुक्त इत्यर्थः ।।२१।। १६॥ Jain Education Interior For Personal & Private Use Only " Page #22 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१७॥ संततिलका) हंहो विलोक्य परमंगदमंगनाना,-मानंदमुद्वहसि किं मदनांधबुद्धे ।। सत्यं विवेकनिधनैकनिमित्तमेत,-मेधाविनो हि परमंगदमुद्गृणन्ति ॥२२॥ हहो इति संबोधने हे मदनांधबुद्धे मदनेन कामेन अंधीभूता बुद्धिर्यस्य तस्य संबोधने ।।अंगनाना प्रधानमंगं यासा तासामंगनानां परमुत्कृष्टं ।। अंगदं केयूरं विलोक्य दष्ट्वा आनंदं किमुद्वहसि प्राप्नोसि ।। मेधाविनः पंडिता एतत् अंगदं परममुत्कृष्टं गदं रोगमुद्गृणति प्रजल्पंति तत्सत्यं ।। कथंभूतं गदं ?।। विवेकनिधनकनिमित्तं विवेको ज्ञानं तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्तं कारणं ।। गदो हि निधनैकहेतुर्भवत्येव ।। अत्र पद्ये उभयत्र परमंगदमितिपदं भिन्नार्थत्वाच्चित्रकृत् ।।२२।। (रुचिरा) अयं जनो वलयभरं विलोकते, मृगीदृशामधिभुजवल्लि बालिशः ।। न बुद्धयते सुकृतचमूं जिगीषतः, समुद्यतं बलभरमेनमेनसः ॥२३॥ अयं प्रत्यक्षगतो बालिशो मूर्यो जनो मृगीदृशां स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजावेव वल्लि तस्यामिति अधिभुजवल्लि ।। विभक्त्यर्थेऽव्ययीभावः भुजलतायामित्यर्थः ।। विलोकते पश्यति ।। एनं वलयभरं एनसः पापस्य समुघतं सावधानीभूतं बलभरं सेनासमूहं न बुद्धयते ।। कथंभूतस्य एनसः?।। ॥१७॥ Jain Education Internet For Personat & Private Use Only Mar Page #23 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१८॥ सुकृतचमूं सुकृतस्य शीलादेः चमूः सेना तां जिगीषतः जेतुमिच्छतः ।। कथं वलयभरं बलभरमिति तत्रोच्यते । कथंभूतं वलयभरं ? अयं न विद्यते यो यकारो यस्मिन् सः अयस्तमयं यकाररहितमित्यर्थः ।।२३।। (वसंततिलका) ये दृकुपथे तव पतति नितंबिनीनां कान्ताः, करा जडिमपल्लवनप्रवीणाः ।। नो वेत्सि तान् किमपवर्गपुरप्रयाण,-प्रत्यूहकारणतया करकानवश्यम् ॥२४॥ तव दृक्पथे दृष्टिमार्गे नितंबिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः नितंबिनीनामिति संबन्धे बहुत्वात् करा इति बहुत्वं पतति अवलोकनतां गच्छन्ति ।। कथंभूताः कराः?।। जडिमपल्लवनप्रवीणाः जडिम्नः जडता या यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाः चतुराः तान् करान् अवश्य निश्चयेन करकान् घनोपलान् किं नो वेत्सि न जानासि ।। कया?।। अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्षः स एव पुरं नगरं तस्मिन् प्रयाणं गमनं तत्र यः प्रत्यूहो विघ्नस्तत्र यत्कारणं निदानं तस्य भावः तत्ता तया अपवर्ग० ।। गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विघ्नकारणं प्रसिद्धमेव ।। उक्तं च वसंतराजशाकुने ॥ क्षीणचंद्रतिथि दुःसहानलं दूषितं धरणि कंपनादिना।।पूर्ववज्जालदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनमिति।।अकालवृष्टिर्गमने निषिद्धा । करकपतनं त्ववश्यं वर्त्यमेव ।। करान् करकान् कथमिति प्रश्नोत्तरं ।। कथंभूताः कराः?|| कान्ताः ककारान्ता इत्यर्थः ।। तादृशाः कराः करका भवत्येवेत्यर्थः ।। २४।। 1॥१८॥ Jain Education Intern For Personal & Private Use Only |vww.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी 1198 11 Jain Education Inter (इन्द्रवज्रा ) नीव्याप्तमस्या हरिणेक्षणाया, यं वीक्ष्य हारं हृदि हर्षमेषि ॥ विवेकपंकेरुहकाननस्य, तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि हृदये हर्षं प्रमोदं एषि प्राप्नोषि ।। कथंभूतं हारं ? | नीव्याप्तं नीवीं वसनग्रंथिं आप्तं प्राप्तं नीव्याप्तं नीवीपर्यन्तं लंबायमानमित्यर्थः ।। बुधाः तं हारमेव विवेकपंकेरुहकाननस्य विवेक एव पंकेरुहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति ॥ नीहारो यथा कमलकाननस्य दाहकस्तथा यं हारं हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथं नीहारमिति प्रश्ने तत्रोच्यते ॥ कथंभूतं हारं ? ।। नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्तं एतादृशं हारं नीहारं स्यात् ।।२५।। (वंशस्थ ) विलोक्य किं सुन्दरमंगनोदरं करोषि मोहं मदनज्वरातुर ॥ नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमंगनोदरम् ॥२६॥ मदनज्वरातुर मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनं सुंदरं दर्शनार्हं अंगनोदरं अंगनाया उदरं विलोक्य त्वं किं मोहं करोषि ।। अंगेत्यामंत्रणे ॥ भवांतरे आगामि भवे भाविनं भवनशीलं दरं भयं किं For Personal & Private Use Only 1198 11 Page #25 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR०॥ नो ईक्षसे न विचारयसि ॥ कथंभूतं दरं ?। दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तस्मिन् संभव उत्पत्तिर्यस्य तं ।।अत्र पूर्वं अंगनोदरमिति समस्तं पदं ॥परत्र अंग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ।।२६॥ (वसंततिलका) स्फूर्जन्मनोभवभुजंगमपाशनाभि, नाभी कुरंगकदृशां दृशि यस्य लग्ना ।। नाभीमयं जगदशेषमुदीक्षतेऽसौ, यो यत्र रज्यति स तन्मयमेव पश्येत् ।२७।। यस्य पुरुषस्य दृशि नेत्रे कुरंगकदृशां मृगनेत्राणां स्त्रीणां नाभी शरीरावयवविशेषः लग्ना ।। कथंभूता नाभी?।। स्फूर्जन्मनोभवभुजंगमपाशनाभी स्फूर्जन देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पस्तस्य पाशार्थं नाभी ।। कामसर्पस्थानमित्यर्थः ।। असौ पुमानशेष समस्तं जगत् नाभीमयं अभीमयं निर्भयं नोदीक्षते ।। न निर्भयं जगदीक्षत इत्यर्थः ॥ यः पुरुषः यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति ॥ नाभी दृशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रं ॥ नाभीनाभीमयमिति चित्रकृत् ।। २७॥ (उपेन्द्रवजा) जडोपयुक्तं जघनं मृगाक्ष्याः, समीक्ष्य किं तोषभरं तनोषि । अमुं विशुद्धाध्यवसायहंस,-प्रवासहेतुं घनमेव विद्याः ।।२८॥ IIR०॥ Jain Education intern For Personal & Private Use Only W w w.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR१॥ मृगाक्ष्याः स्त्रियाः जघनं समीक्ष्य दृष्टवा किं तोषभरं हर्षभरं तनोषि विस्तारयसि ।। कथंभूतं जघनं?।। जडोपयुक्तं जडानां मूर्खाणां उपयुक्तं योग्य अमुं जघनं घनं मेघमेव विद्या जानीयाः ।। कथंभूतं जघनं?।। विशुद्धाध्यवसायहंसप्रवासहेतुं विशुद्धो निर्मलो यः अध्यवसायः चित्ताभिप्रायः स एव हंसः तस्य यः प्रवासः तस्य हेतुः कारणं तं विशुद्धा० ॥ धनागमे हंसा मानसे गच्छंतीति प्रसिद्धं ।। जघनं घनं कथं ? तत्राह ।। जडोपयुक्तं डलयोश्चैकत्वस्मरणात् जलोपयुक्तं ।। जस्य जकारस्य लोपो नाशस्तेन युक्तं जकारं विना जघनं घनं स्यात् ।। २८॥ (उपेन्द्रवज्रा) नितंबमुल्लासिततापनोदं, दिदृक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा, तं निंबमेव त्यज दूरतोऽपि ॥२९॥ कमलेक्षणानां (स्त्रीणां) कमलनयनानां यं नितंब पृष्ठभाग दिदृक्षसे द्रष्टुमिच्छसि ।। कथंभूतं नितंबं उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं येन सः तं ॥ तं नितंब निबमेव रिष्टं विदित्वा दूरतोऽपि त्यज । कथंभूतं निंब ?।।सर्वात्मना पत्रफलपुष्पसमूहेन अत्यंतकटुं अतिकटुकं ।। नितंबं कथं निंबमिति प्रश्ने तत्रोच्यते ।। कथंभूतं निबं?।। उल्लासिततापनोदं ।उल्लासितस्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तं ।। तकारनाशे नितंबो निंबः स्यादेवेत्यर्थः ।। २९॥ IR१॥ Jain Education Internal For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR२॥ FASSASARASHISHASHRSHASHA (शार्दूलविक्रीडितम्) नूनं नूपुरमेतदायतदृशो रागादिविद्वेषिणां, क्रीडार्थ पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् ॥ येनास्मिन्मुखमात्रचंगिमगुणैराकृष्य तैरुल्बणै बद्धस्य प्रसभं चिरादपि सखे मुक्तिर्भवित्री न ते ॥३०॥ नूनं निश्चितं आयतदृशः आयते विस्तीर्णे दृशौ यस्यास्तस्या विशालनयनायाः (स्त्रियाः) एतन्नूपुरं चरणभूषणं रागादिविद्वेषिणां रागादिशत्रूणां क्रीडार्थं विनोदार्थं पुरं नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यं ।। शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः ।। हे सखे येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मुखमात्रचंगिमगुणैः ।। मुखमात्रे ये चंगिमाः श्रेष्ठाः गुणास्तैरुल्बणैरुदारैराकृष्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि चिरकालेनापि मुक्तिर्मोचनं न भवित्री ।। नूपुरं पुरं कथमिति प्रश्ने ।। तत्र कथंभूतं नूपुरं? नूनं नूशब्देन ऊनं नूनं नूशब्दरहितं नूपुरं पुरं भवतीति ।।३०।। (उपजातिः) या स्त्रीति नाम्ना बिभृते शमादौ, शस्त्री प्रबुद्धैरवबुद्ध्यतां सा ।। एनां पुरस्कृत्य जगत्यनंगभटो यतः पुण्यभटं भिनत्ति ॥३१॥ IR२॥ For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR३॥ या स्त्रीति नाना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धैर्जानिभिः शमादावुपशमादिकर्मणि शस्त्री ।। अमुक्तायुधं अमुक्तं शस्त्रीप्रमुखमिति ।। क्षुरी शस्त्री कृपाणिकेति नामकोशः ।।अवबुध्यतां ज्ञायतां ।। यतो यस्मात् अनंगभटः कामसुभटः जगति संसारे एनां स्त्रीरूपां शस्त्री पुरस्कृत्य अग्रे कृत्वा पुण्यभटं धर्मसुभटं भिनत्ति भेदनं करोति । सुभटेन प्रतिसुभटं शस्त्र्या भेदनं विधीयत एव ।। स्त्रीति शस्त्री कथं तत्रोच्यते?।। शमादौ या स्त्री शं शकारमादौ बिभृते तदा स्त्री शस्त्री स्यादेवेत्यर्थः ।।३१।। (वसंततिलका) येयं वधूरवसिता हृदये प्रमोद,-संपादनव्यतिकरैकनिबन्धनं ते ॥ सा दुर्गदुर्गतिपथेन जगन्निनीषो,-धूरव मन्मथरथस्य विभावनीया ॥३२॥ या इयं वधूस्ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिबंधनं ।। हृदये यः प्रमोदस्तस्य संपादनमुत्पादनं तस्य यो व्यतिकरः समूहः तस्य निबंधनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया मन्यत इत्यर्थः ।। सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या ।। कथंभूतस्य मन्मथरथस्य ।। जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेनरकादिगतेः पंथाः दुर्गतिपथः ।।रुक्पूरब्धःपथामानक्षे इति अप्रत्ययः ।। दुर्गो यो दुर्गतिपथस्तेन ॥ निनीषोर्नेतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धूरस्ति न वधूरित्यर्थः ।। वधूः धूः कथं तत्रोच्यते ।। वेन वकारेण सिता बद्धा वसिता न वसिता अवसिता वकाररहिता वधूधूरेव स्यादित्यर्थः ॥३२॥ ॥२३॥ Jain Education Intern For Personal & Private Use Only vww.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR४॥ (शार्दूलविक्रीडितम्) प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता, देहधुत्या कनकनिभया द्योतिताशा विवेकिन् ।। सत्यं तासामनलसदृशां संयमारामराज्यं, मा भूः पार्श्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥३३।। हे विवेकिन या एतास्तरुण्यो नार्यः तव प्रीतिं हर्षं तन्वन्ति विस्तारन्ति ।। कथंभूतास्तरुण्यः ?।। अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अनलसदृशः उन्निद्रनेत्रा इत्यर्थः ।। पुनः किंविशिष्टास्तरुण्यः?।। कनकनिमया स्वर्णतुल्यया देहधुत्या शरीरकांत्या घोतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः ।। संयमारामराज्यं संयमश्चारित्रं स एव आरामस्तस्य राज्यं परंपरा तस्यां विषये तासां स्त्रीणां अनलसदृशां अग्नुितल्यानां ।।सत्यं स्त्रीसंपर्काच्चारित्रवनदाहो भवत्येवेत्यर्थः ।। यदि त्वं शिवावाप्तये मोक्षप्राप्त्यै बद्धबुद्धिः बद्धा बुद्धिर्येन स तादृशोऽसि तदा तासां पार्वेऽपि समीपेऽपि मा भूः ।। अत्र पद्ये अनलसदृशत्वं एकत्र वर्णत्वेन अपरत्र दाहकशक्तित्वेनोपादानं चित्रकृत् ।।३३।। (मालिनी) क इह विषयभोगं पुण्यकर्मायशून्यं, स्पृहयति विषभोगं भावयेस्तत्त्वतस्त्वम् ।। स्मरति न करणीयं मूर्छितो येन जंतुः, पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥३४॥ IR४॥ Jain Education interne Page #30 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR५॥ इहास्मिन् संसारे कः पुरुषो विषयभोगं पंचेद्रियसुखं स्पृहयति वांछति ।। कथंभूतं-वि० पुण्यकर्मायशून्यं । पुण्यकर्मणः आयो लाभस्तेन शून्यं ।। तत्त्वतस्त्वं विषभोगं भावयेः जानीहि ।। विषयभोगं विषभक्षणतुल्यं जानीहीत्यर्थः ।। तदेव स्पष्टयति ।। येन विषयभोगेन मूर्च्छितो मोहं प्राप्तो जंतुः प्राणी करणीयं करणाहँ न स्मरति ॥पुनः मोक्षमार्गन ईक्षते ॥कुगतिगर्ते पतति ।। विषभक्षकस्य स्मरणादिभ्रंशकत्वं प्रकटमेव विषयभोगो विषभोगो भवतीत्यर्थः ॥३४।। (उपजाति) सखे सुखं वैषयिकं यदेत,-दाभासते तन्नरकान्तमन्तः ।। सत्यं तदुत्सर्पदघप्रबंध-निबन्धनत्वान्नरकान्तमेव ॥३५॥ हे सखे हे नर एतत् वैषयिकं विषयेभ्यो भवं वैषयिकं सुखं ते तव अंतः चेतसि कांतं मनोज्ञं यत् आभासते तत्सत्यं मिथ्या नेत्यर्थः ।। उत्सर्पदघप्रबंधनिबंधनत्वात् ।। उत्सर्पन्प्रसर्पन यः अघस्य पापस्य प्रबंधः परंपरा तस्य निबंधनं कारणं तस्य भावस्तत्त्वं तस्मानरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तं नरकप्रापकमित्यर्थः ।। अत्र पद्ये पूर्वत्र नरकान्तमिति भिन्नं पदं परत्र नरकान्तमिति समस्तं पदमिति चित्रकृत् ।।३५।। (शिखरिणी) स्मक्रीडावाप्यां वदनकमले पक्ष्मलदृशां, दृढासक्तिर्येषामधरमधुपानं विदधताम् ॥ अदूरस्था बन्धव्यसनघटना क्लेशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ।।३६॥ %A8%25ASSSSSSSS VIR५॥ Jain Education Internal For Personal&Privateuse Only l Page #31 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR६॥ **SHRSSSSSHRSHIRSHRSHA स्मरक्रीडावाप्यां स्मरक्रीडार्थं वापी तस्यां येषां मनुष्याणां पक्ष्मलदृशां स्त्रीणां वदनकमले वदनमेव कमलं तत्र दृढासक्तिः दृढा आसक्तिः तन्मयता वर्त्तते इति शेषः ।। किं कुर्वतां येषां ।। अधरमधुपानं विदधतां अधरमेव मधु पुष्परसः तस्य पानं तत् कुर्वतां ।। तेषां नृणां इह वदनकमले मधुकराणां भ्रमराणामिव बंधव्यसनघटना बंधेन बंधनेन यद्व्यसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति ।। कथंभूतानां मधुकराणां ?।। नृणां च विमुग्धानां मोहदशां प्राप्तानां ।। कथं० बन्धव्य०?।। क्लेशमहती क्लेशेन महती दुःसहा ।। यथा भ्रमराणां कमले मधुपानं कुर्वतां दृढासक्तिबंधनकष्टदायिनी तथा नृणां स्त्रीमुखकमले अधररसपानं कुर्वतां वधबंधनादिकष्टं भवतीत्यर्थः ।। ३६।। (शार्दूलविक्रीडितम्) सखे सन्तोषाम्भः पिब चपलतामुत्सज निजां, शमारामे कामं विरचय रुचिं चित्तहरिण ! ॥ हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो, विमुक्ता नीरागैर्विषमशरसम्पातविषमाः ॥३७॥ हे सखे हे चित्तहरिण चित्तमेव हरिणो मृगस्तस्य संबोधनं ।। चित्तस्य चांचल्यान्मृगसादृश्यं ।। त्वं संतोषांभः पिब सन्तोष एव अंभो जलं त्वं पिब ।। निजां स्वकीयां चपलतां चापल्यमुत्सृज त्यज काममत्यर्थं शमारामे शम एव आरामस्तस्मिन् उपशमवने रुचिं तुष्टिं विरचय कुरु ।। मृगस्य वनेऽधिकरुचित्वात् इष्टोपदेशः ।। एता युवतिनितंबस्थलभुवः युवतीनां नितंबाः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां तृषां न हरन्ति न MIR६॥ Jain Education Inter For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥२७॥ दूरीकुर्वन्ति स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः ।। कथंभूता युवति०? नीरागैर्विमुक्ताः नीराणि च अगाश्च नीरागास्तैः जलवृक्षैर्विमुक्ताः ।। जलेन वृक्षच्छायया च तृषाहानिर्भवति ।।पुनः कथंभूता युवतिनितं०?।। विषमशरसंपातविषमाः ।। विषमा असह्या ये शरसम्पाता बाणपातास्तैर्विषमा दुष्टाः अस्यां भुवि व्याधादिभिर्बाणपातो विधीयते तेन तव मरणं भविष्यति न तु तृष्णाहानिरित्यर्थः ।।पक्षे कथंभूता युवति०?।। नीरागैः रागरहितैर्विमुक्तास्त्यक्ताः ।। विषमशरः कामस्तस्य संपातेन विषमा अमनोज्ञाः ।। एतेन युवतिनितंबवांछां मा कुरु इति चित्तं प्रत्युपदेशः ।।३७।। (शार्दूलविक्रीडितम्) चेतश्चापलमाकलय्य कुटिलाकारां कुरंगीदृशो, दृष्ट्वा कुन्तलराजिमजनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना स्वीकर्तुकामस्य मे, प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः॥३८॥ हे चेतस्त्वं कुरंगीदृशो मृगाक्ष्याः ।। कुन्तलराजिं शिरोरुहश्रेणिं दृष्ट्वा चापलमाकलय्य चांचल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोषि ।। कथंभूतां कुन्तलराजिं?।।कुटिलाकारांकुटिलो वक्र आकारो यस्यास्तां ।। पुनः कथंभूतां कुं०?।। अंजनघनश्यामां अंजनं कज्जलं घनो मेघस्तद्वत् श्यामा कृष्णां ।। केशानां कृष्णत्वं IR७॥ For Personal & Private Use Only lww.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR८॥ यौवने तधुक्तां स्त्रियं दृष्ट्वा चित्तचलनं न्याय्यं ।। उक्तं च ।। पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा च नवयौवनाम् ।। द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ।।१।। इति मे मम प्रत्यूहाथ विघ्नार्थं आधुना इदानी उपस्थिता प्राप्ता इयं उरगश्रेणी सर्पपरंपरा इति त्वं संचिंतयेः जानीयाः ।। कथंभूतस्य मे?॥धर्मध्यानमहानिधानम् स्वीकर्तुकामस्य अंगीकुर्वतः धर्मध्यानं धर्मचिंतनं तदेव महानिधानं । यत्किंचित्कार्यकरणोद्यतस्य सर्पदर्शनं निषिद्धं ।। निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः ।। कुंतलस्य सर्पोपमानत्वं कविसंमतमेव ।।३८।। (शार्दूलविक्रीडितम्) यातुं यद्यनुरु च्यते शिवपुरी रामानितंबस्थली, मुंचेर्दूरमिमामनंगकलभक्रीडाविहारोचिताम् ।। नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण-, क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् ॥३९॥ हे पुमन् यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गंतुं अनुरुच्यते तदा त्वं इमां रामानितंबस्थली स्त्रीनितंबभूमि दूर दूरतो मुंचेः । कथंभू०? रामानितं०?।। अनंगकलभक्रीडाविहारोचितां अनंगः कामः स एव कलभः गजशिशुः तस्य क्रीडा विहारो विहरणं तत्रोचितां योग्यां ।। चेदिमां दूरं न मुंचसि तदा किं भविष्यति तदाह ।। नोचेदिति त्वं जन्माटवी संसाराटवीं प्राप्नोषि ।। कथंभूतस्त्वं ? यौवनचण्डवातविततव्यामोहधूली For Personal & Private Use Only IRCII Jain Education Intern Page #34 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी IR९॥ कणक्लाम्यदृष्टिः यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वैचित्त्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः ।। अत एव अदृष्टशाश्वतपथः न दृष्टः शाश्वतस्य शिवस्य पंथा मागर्गो येन सः रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ।।३९।। (मालिनी) शमधनमुपहर्तुं कामचौरप्रचारं, विरचयति निकामं कामिनी यामिनीयम् ।। सपदि विदधती या मोहनिद्रासमुद्रां, जनयति जनमंतःसर्वचैतन्यशून्यम् ।।४।। इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यंत कामचौरप्रचारं काम एव चौरस्तस्य प्रचारं विहरणशीलत्वं विरचयति प्रकटीकुरुते ।। किं कर्तुं ?|| शमधनमुपहर्तुं शम उपशम एव धनं तद्गृहीतुं यामिन्यां धनाहरणार्थं चौरप्रचारो भवति ।। या यामिनी जनं मनुष्यं अंतःसर्वचैतन्यशून्यं अंतरिति अन्तःकरणे सर्वं च तत् चैतन्य च तेन शून्यं रहितं जनयति करोति ।। यामिनी किं कुर्वती सपदि तत्कालं मोहनिद्रासमुद्रां मोहो मूर्छा एव निद्रा तस्याः समुद्रां समृद्धिं विदधती ।।४०।। (उपजाति) मृगेक्षणा नूनमसावसीमा, भीमाटवी बुद्धिमतामतीत्या ॥ यदबाहवल्लीभिरनंगभिल्लो, बद्धवा नरान लंभयते न मुक्तिम् ।।४१॥ समुद्रा समृद्धि विना ।। यामिनी कितन्यशून्यं अंतति ॥२९॥ Jain Education Intern For Personal & Private Use Only Kll Page #35 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३०॥ ABHARASHRSHARABHAR नूनं निश्चितं असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री ।। भीमाटवी भयानकारण्यं वर्त्तते इति शेषः ।। कथंभूता भीमाटवी? असीमा न विद्यते सीमा मर्यादा यस्याः ।। पुनः कथंभूता?|| बुद्धिमतां विदुषां अतीत्यातिक्रमणीया यद्बाहुवल्लीभिः यस्या मृगेक्षणाया बाहू एव वल्लयो लतास्ताभिः अनंगभिल्लो अनंग एव भिल्लस्तस्करः नरान् मनुष्यान् बवा मुक्तिं न लंभयते न कारयति यथा अटव्यां तस्करः पथिकान् लताभिर्बवा सर्वस्वं गृह्णाति ।। तथा मृगेक्षणापि कंठग्रहणं कृत्वा नरान्मुक्तिप्राप्तिं न कारयतीति भावार्थः ।। ४१।। (शिखरिणी) इयं वारंवारं द्युतितुलितरोलंबवलयं, न वक्र भ्रूचक्रं चलयति मृगाक्षी मम पुरः ॥ कुधीकारागारापसरणमतिं मां स्खलयितुं, प्रपंचत्पंचेषोर्वहति निबिडं लोहनिगडम् ।।४२॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात् वक्रं भ्रूचक्रं वारंवारं अनुवेलं न चलयति ।। कथंभूतं भ्रूचक्रं ? द्युतितुलितरोलंबवलयं ॥ द्युत्या कान्त्या तुलितः समानीकृतो रोलंबानां भ्रमराणां वलयो वृत्तता येन ।। किमेतत्तदाह मां स्खलयितुं गमनाभावं कर्तुं पंचेषोः पंच इषवो बाणा यस्य तादृशस्य कामस्य निबिडं दुस्सहं लोहनिगडं वहति धारयति ।। किं० लोहनिगडं ?।। प्रपंचत् प्रपंचयुक्तं ।। कथंभूतं मां?।। कुधीकारागारापसरणमतिं कुत्सिता धीः कुधीः सैव कारागारो बंदिस्थानं तस्मादपसरणे दूरगमने मतिर्यस्य तं । यथा चौरस्य लोहनिगडं क्षिप्त्वा कारागारे क्षिप्यते तथा मामपि वशीकर्तुं भ्रूचक्रकामस्य निगडं धत्ते इत्यर्थः ।।४२।। ASHASTRA ॥३०॥ Jain Education internal For Personal & Private Use Only Kil Page #36 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य SARASAR तरंगिणी ॥३१॥ SARKARISHRASIRSS (मंदाक्रान्ता) यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे, नायं हारश्चकितहरिणीलोचनायाश्चकास्ति ।। नाभीरंधे विहितवसतिर्योऽस्ति कंदर्पसर्प,स्तन्मुक्तोऽयं स्फुरति रुचिरः किंतु निर्मोकपट्टः ।।४३।। हे मित्र वयं इतोऽस्मात् अन्यत्र द्रुततरं अतिशीघ्रं यामो गच्छामः ।। चकितहरिणीलोचनायाः ।। चकिता हरिणी तस्या लोचने इव लोचने यस्याः तस्याः ।। कण्ठपीठे यत् चकास्ति शोभते अयं हारो नास्ति किंतु यः कंदर्पसर्पः कंदर्पः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्मुक्तः अयं रुचिरो मनोज्ञः निर्मोकपट्टः कंचुकः स्फुरति चकास्ति ।। कथंभूतः कंदर्पसर्पः ? नाभीरधे विहितवसतिः ।। नाभीरधे नाभीकुहरे विहिता कृता वसतिर्वासो येन स ना० अयमेवान्यत्र गमने हेतुः ।। सर्पकंचुकदर्शनमपि भयावहं ।। नाभीसर्पबिलं हारं सर्पकंचुकं तबुद्ध्या पलायनं युक्तमेवेत्यर्थः ।।४३।। (वसंततिलका) यः कामकामलविलुप्तविवेकचक्षुः, स्वर्गाऽपवर्गपुरमार्गमवीक्षमाणः ।। ज्ञानाञ्जनं प्रति निरादरतामुपैति, भ्रातः पतिष्यति स भीमभवांधकूपे ।।४४॥ S ॥३१॥ Jain Education Interna For Persona & Private Use Only mvww.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३२॥ यः पुरुषः ज्ञानांजनं ज्ञानमेवांजनं प्रति निरादरतामुपैति ॥निरादरं करोति ।। कथंभूतो यः ? कामकामलविलुप्तविवेकचक्षुः ।। कामः स्मरः स एव कामलो नेत्ररोगस्तेन विलुप्तं विवेक एव चक्षुर्यस्य स कामकामलविलुप्त० ॥ अत एव स्वर्गापवर्गपुरमार्गमवीक्षमाणः स्वर्गो देवलोकोऽपवर्गो मोक्षः तावेव पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः हे भ्रातः भीमभवांधकूपे । भीमो भयानकः भवः संसारः स एव अंधकूपः तस्मिन् पतिष्यति यः कामलरोगग्रस्तचक्षुरंजनं प्रत्यादरं न करोति सोऽधकूपे पतत्येवेति ।।४४ ।। (शिखरिणी) भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी, तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् ।। यतश्छायाप्येषां प्रथयति महामोहमचिरा-दयं जंतुर्यस्मात्पदमपि न गंतुं प्रभवति ।।४५॥ हे पुमन् भवारण्यं संसाराटवीं मुक्त्वा यदि मुक्तिनगरी शिवपुरी जिगमिषुः गंतुमिच्छुरसि तदानीं विषयविषवृक्षेषु विषया एव विषवृक्षास्तेषु वसतिं रतिं त्वं मा कार्षीः मा कुर्याः ।। यतो यस्मात् कारणात् एषां वृक्षाणां छायापिमहामोहं अचिरात् शीघ्रं प्रथयति विस्तारयति ।। विषयविषच्छायास्पर्शोऽपि वैचित्त्यकारको भवतीत्यर्थः ।। यस्मात् कारणात् अयं जंतुः प्राणी पदमपि पादमात्रमपि गंतुं गमनाय न प्रभवति न समर्थः भवति ।। यथारण्यं मुक्त्वा नगरी गंतुकामो नरो विषवृक्षाधो वसन् मत्तो भवति तदा पदमात्रमपि न गंतु शक्नोति ।। तद्वत् संसार मुक्ता मुक्तिमभिलषता पुंसा विषयसेवायां मतिर्न कार्येति तात्पर्य्य ।।४५।। ॥३२॥ Main Education inte For Personat & Private Use Only 8 | Page #38 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३३॥ (उपजाति) सोमप्रभाचार्यमभा च यन्न, पुंसां तमःपंकमपाकरोति ।। तदप्यमुष्मिन्नुपदेशलेशे, निशम्यमानेऽनिशमेति नाशम् ।।४६॥ इति श्रीशतार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी समाप्ता ।। सोमप्रभा चंद्रकांतिः च पुनः अर्यममा अर्यम्णः सूर्यस्य कान्तिः यत्पुंसां मनुष्याणां तमःपंकमज्ञानांधकारसमूह न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुष्मिन्नुपदेशलेशेऽल्पोपदेशे निशम्यमाने श्रूयमाणे सति अनिशं निरंतरं नाशमेति नाशं प्राप्नोति ।। चन्द्रसूर्यप्रभयाऽज्ञानान्धकारंदूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतांधकारमपि दूरीकर्तुं शक्यत इति ।। अतोऽस्योत्कृष्टत्वमत्र पद्ये ग्रंथकर्ता सोमप्रभाचार्य इति स्वनामगोपितं चातुर्येणेति बोध्यं ।।४६।। संवत्सरद्विपमुनींदुमितस्य मासे, मार्गे त्रयोदशमिते दिवसे भृगौ च ।। स्वल्पातरीविरचिता सुखबोधिकाख्या, श्लेषौघदुस्तरतरंगिणिका सुशास्त्रे ।।१।। आगरानाग्नि नगरे, नंदलालेन धीमता ।। दानविशालशिष्यानु,रोधेन कृपया गुरोः ।।२।।।। युग्मं ।। ।।३३।। Jain Education Internal For Personal & Private Use Only || Page #39 -------------------------------------------------------------------------- ________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३४॥ सोमप्रभाचार्यकृति सुदुर्गमा, विवृण्वता स्वल्पधिया मयात्र यत् ।। न्यूनाधिकोट्टंकनमल्पबुद्धितः, कृतं विशोध्यं कृतिभिः कृपालुभिः ॥३॥ श्रीजिनभक्तिसूरींद्रे, गच्छसाम्राज्यबिभ्रति ।। अशेषमनुजवृन्द-,नतपादांबुजद्वये ॥४॥ इति श्रीसोमप्रभाचार्यविरचितशृंगारवैराग्यतरंगिण्याः सुखबोधिकानाम्नी वृत्तिः संपूर्णा।। अयं शृङ्गारवैराग्यतरंगिणीनामको ग्रंथः वटोदरस्थजगजीवनसुंदरश्रावकेण स्वपरोपकाराय मुम्बापुर्यां निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रापितः ।। संवत् १९४२ ।। ॥श्लोकः ॥ आत्मशिष्योपदेशेन, ग्रंथो मुद्रापितो मया ।। शृंगारवह्निदग्धानां, वैराग्यरससागरः ॥१॥ ॥३४॥ lain Education internelles For Personal & Private Use Only & ww.jainelibrary.org Page #40 -------------------------------------------------------------------------- _