________________
श्री शृङ्गार वैराग्य
तरंगिणी ॥३३॥
(उपजाति) सोमप्रभाचार्यमभा च यन्न, पुंसां तमःपंकमपाकरोति ।। तदप्यमुष्मिन्नुपदेशलेशे, निशम्यमानेऽनिशमेति नाशम् ।।४६॥
इति श्रीशतार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी समाप्ता ।। सोमप्रभा चंद्रकांतिः च पुनः अर्यममा अर्यम्णः सूर्यस्य कान्तिः यत्पुंसां मनुष्याणां तमःपंकमज्ञानांधकारसमूह न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुष्मिन्नुपदेशलेशेऽल्पोपदेशे निशम्यमाने श्रूयमाणे सति अनिशं निरंतरं नाशमेति नाशं प्राप्नोति ।। चन्द्रसूर्यप्रभयाऽज्ञानान्धकारंदूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतांधकारमपि दूरीकर्तुं शक्यत इति ।। अतोऽस्योत्कृष्टत्वमत्र पद्ये ग्रंथकर्ता सोमप्रभाचार्य इति स्वनामगोपितं चातुर्येणेति बोध्यं ।।४६।।
संवत्सरद्विपमुनींदुमितस्य मासे, मार्गे त्रयोदशमिते दिवसे भृगौ च ।। स्वल्पातरीविरचिता सुखबोधिकाख्या, श्लेषौघदुस्तरतरंगिणिका सुशास्त्रे ।।१।। आगरानाग्नि नगरे, नंदलालेन धीमता ।। दानविशालशिष्यानु,रोधेन कृपया गुरोः ।।२।।।। युग्मं ।।
।।३३।।
Jain Education Internal
For Personal & Private Use Only
||www.jainelibrary.org