SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education International प्रास्ताविकम्..... ऐं नमः ऐन्द्रवृन्दनतजिनपादपीठोपलोठितमौलिमालास्थितरत्नावली भासुरचरण-कमलासन्नोपकारकृत् श्रीवीरस्य शासनमविरतजलप्रवाहसन्निभं प्रोह्यते सुविहितसूरिपुरन्दरैः भगवन्निर्वाणानन्तरम् तस्य च द्विसहस्रमितत्रिंशदधिकपञ्चशतानि वर्षाणि जातानि । एतावत्कालमध्ये प्रभूताः सूरिपुङ्गवाः जिनशासनप्रभावकाः संजाताः । तैश्च भव्योपहिताय नेकशास्त्रग्रन्थाः संरचिताः । तद्वदयं ग्रंथोऽपि । श्री सोमप्रभसूरीश्वरः आत्मशिष्योपकाराय ग्रथितः । श्लोकसंख्याभिः लघुतरोऽप्ययं ग्रन्थः रचनासौन्दर्य - गांभीर्य- भाषासौष्ठवालंकारादिभावै वैराग्यभावैकप्रदीपप्रज्वलितकारितया च प्रभूततरबोधप्रदायकः भविष्यति । यतः संसारसागरे निमज्जज्जन्तुनां विषयोपभोगलिप्सा प्रबलतरा शास्त्रज्ञैः व्यावर्णिता । तेषु च विषयोपभोगेषु स्त्रीसंग ः प्रकामं आसक्तिकारणमस्ति । ततः तत्संग: विचक्षणैः सुदूरदर्शिभिः निराकर्तव्यम् । यदुक्तं "स्त्रीः रक्ताविरक्ताश्चेत् मारत्येव" । ततः अस्मिन् ग्रन्थे स्त्रीणां दूरन्तता प्रदर्शिता । तस्याः च देहावस्थितानि नेत्रौष्पुट - नासिका - कर्ण - केश-मुख-स्तन- स्कंध - कराडुली - दन्त - नखोदर - नाभि- जघनोरुस्थल -पाद-चरणाद्यङ्गोपाङ्गानिकल्पित क्षण- तुच्छसुखानन्तदुःख परंपराकारणीभूतानि प्रभवन्ति । ततः अस्मिन् ग्रन्थे तदङ्गानां नीरसतां, अदर्शनीयतां अस्पृश्यतां प्रदर्श्य प्रभूतोपमोपमेयभावैरङ्गानां दूरतः त्याज्याः इति सुष्ठुभाषया निदर्शितम् । असौ ग्रन्थः यदा मयकया दृष्टो पठितो तदा च तस्य जीर्णतां दृष्टवा मम हृदये पुनर्मुद्रणेच्छा संजाता । तातपाद-प्रतिद्धप्रवचनकार गुरुदेवाचार्य विजयश्रेयांसप्रभसूरीश्वराज्ञाशिषतया च प्रारब्धम् तद्कार्यमद्य समापनमभूत् । तदवसरे नान्याऽऽशा किन्तु भव्यात्मानोऽस्य ग्रन्थस्य पठन-पाठनतया वैराग्यभावप्रवृद्धिम् प्राप्य शीघ्र सकलसंक्लेशव्यच्छित्ति कारकमपवर्गम् प्राप्नुयादित्याशास्ते । मम यत्कार्योपार्जित-पुण्येन ज्ञानादिवृद्धिश्चापवर्गसुखप्राप्तिः भवत्वित्यन्तरेच्छा । - तातपद गुरुदेवाचार्य श्रीयुत् विजय श्रेयांसप्रभसूरि चरणरेणु-सम्यग्दर्शनविजयोमुनिः www.jainelibrary.org
SR No.600199
Book TitleShringar Vairagya Tarangini
Original Sutra AuthorSomprabhsuri, Nandlal Shraddh, Samyagdarshanvijay
Author
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy