________________
[श्रीशृङ्गारवैराग्यतरंगिणी]
श्री शृङ्गार
वैराग्य तरंगिणी
19॥
RSAA3%
(उपजाति) ॐनमोऽर्हद्यः ॥ श्रीपार्श्वनाथं प्रणिपत्य भक्त्या । पुरि स्थितं, श्रीफलवर्द्धिकायाम् ।।
शृंगारवैराग्यतरंगिणी या । व्याख्यानतो व्याक्रियते मया सा ॥१॥ श्रीसोमप्रभाचार्याः वैराग्यवासनया शृंगारं दूषयन्तः शृङ्गारवैराग्यतरंगिणीनामानं ग्रंथं कर्तुकामाः स्त्रीरूपं निंद्यमिति प्रतिपादयन्त ऊचुः ।।
(शार्दूलविक्रीडितम्) धर्मारामदवामिधूमलहरीलावण्यलीलाजुष,स्तन्वंग्या यमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे ।। व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमाल
न्मत्वा दूरममून् विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥१॥ धारामेति अहो इत्याश्चर्ये ।। तन्वंग्याः तनुः सूक्ष्ममंगं यस्याः सा तन्वंगी तस्याः स्त्रिया यमितान् बद्धान् वालान् केशान् विलोक्य दृष्ट्वा किमुत्कण्ठसे किं उत्कंठां करोषि ।। कथंभूतान् वालान् ? | 'धर्माराम
11191॥
Jain Education Intern
For Personal & Private Use Only
www.jainelibrary.org