________________
श्री शृङ्गार
वैराग्य
तरंगिणी
॥५॥
(वसंततिलका) कस्तूरिकातिलकितं तुलिताष्टमींदु, चित्ते विचिन्तयसि सौख्यनिमित्तमेकं ।।
वामध्रुवां यदलिकं तदहो अलीक,-मित्याख्ययैव परया प्रवदन्ति रूपं ॥५॥ वामध्रुवां स्त्रीणां यत् अलिकं ललाटं एकमद्वितीयं सौख्यनिमित्तं सुखकारणं चित्ते विचिन्तयसि ।। कथंभूतं अलिकं ?।। कस्तूरिकातिलकितं तिलकं जातं यस्य तत्तिलकितं कस्तूरिकया तिलकितं ।।पुनः कथंभूतं अलिकं ?।। तुलिताष्टमींदु तुलितोऽष्टम्या इंदुर्येन तत् अष्टमीचन्द्रसदृशमित्यर्थः ।। अहो इत्याश्चर्पा ।। तदलिकम् परया अन्यया आख्यया नाम्ना अलीकमिति रूपंवदन्ति बुधाः ॥गोधिर्ललाटालिके चालीकं श्रवणमस्त्रियामिति नामकोशः ।। अलिकं अलीकमित्युभयनाम ललाटस्य ।। अलीकं मृषा वचः ।। अलिकं अलीकं मिथ्या जानीहीत्यर्थः ।।५।।
(इंद्रवज्रा) न भूरियं पंकजलोचनायाश्चकास्ति शृंगाररसैकपात्रं ।।
भूः किंत्वसौ साधुतरा प्रसूते निबंधनं मोहविषद्रुमस्य ॥६॥ पंकजलोचनायाः कमलाक्ष्याः इयं भ्रून चकास्ति न शोभते ॥कथंभूता भ्रूः ?|शृंगाररसैकपात्रं शृंगाररसस्य एकमद्वितीयं पात्रं स्थानं ।। अजहल्लिंगत्वान्नपुंसकत्वं ।। किं त्वसौ भ्रूः साधुतरा अतिशयेन साध्वी साधुतरा ।।
॥५॥
Jain Education Interril
For Personal & Private Use Only
llwww.jainelibrary.org