SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री शृङ्गार वैराग्य तरंगिणी ९॥ (शार्दूलविक्रीडितम्) तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यजसा, मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रांत्या सदुर्ग वनं ।। तच्चात्यन्तमचारुबद्धवसतिर्येनात्ररागादिभि, श्चौरैर्धर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥११॥ यः पुमान् तस्याः स्त्रिया वदनं मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अंजसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे मुक्तिपथं मुक्तिमार्ग मुक्त्वा भ्रांत्या भ्रमेण दुर्ग दुःखेन गमनाहं वनं प्रविशति तद्वनं अत्यंतं अन्तमतिक्रान्तं अप्रमाणमित्यर्थः ॥कथंभूतः सः?||अचारुबद्धवसतिः न चारुरचारुः बद्धा वसतियेन सः । येन वनं प्रविशता पुरुषेण अत्र वने कष्टं किं न प्राप्यते ।। कस्मात् ? रागादिभिश्चौरर्धर्मधनापहारकरणात् ।। धर्म एव धनं धर्मधनं तस्यापहारः हरणं तस्य करणं तस्मात् ।। चौरा हि धनमपहृत्य वनं प्रविशन्ति तदा कष्टं स्पष्टमेव ।। तत्र वदनं कथं वनमिति प्रश्ने ।यः साधुः अदं सुष्ठु न विद्यते दकारो यस्मिन् तत् अदं ।। दकाररहितं वदनं वनं स्यादेव ।।११।। IIRI Jain Education Intern For Personal & Private Use Only llwww.jainelibrary.org
SR No.600199
Book TitleShringar Vairagya Tarangini
Original Sutra AuthorSomprabhsuri, Nandlal Shraddh, Samyagdarshanvijay
Author
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy