________________
श्री शृङ्गार
वैराग्य तरंगिणी ॥१७॥
संततिलका) हंहो विलोक्य परमंगदमंगनाना,-मानंदमुद्वहसि किं मदनांधबुद्धे ।।
सत्यं विवेकनिधनैकनिमित्तमेत,-मेधाविनो हि परमंगदमुद्गृणन्ति ॥२२॥ हहो इति संबोधने हे मदनांधबुद्धे मदनेन कामेन अंधीभूता बुद्धिर्यस्य तस्य संबोधने ।।अंगनाना प्रधानमंगं यासा तासामंगनानां परमुत्कृष्टं ।। अंगदं केयूरं विलोक्य दष्ट्वा आनंदं किमुद्वहसि प्राप्नोसि ।। मेधाविनः पंडिता एतत् अंगदं परममुत्कृष्टं गदं रोगमुद्गृणति प्रजल्पंति तत्सत्यं ।। कथंभूतं गदं ?।। विवेकनिधनकनिमित्तं विवेको ज्ञानं तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्तं कारणं ।। गदो हि निधनैकहेतुर्भवत्येव ।। अत्र पद्ये उभयत्र परमंगदमितिपदं भिन्नार्थत्वाच्चित्रकृत् ।।२२।।
(रुचिरा) अयं जनो वलयभरं विलोकते, मृगीदृशामधिभुजवल्लि बालिशः ।।
न बुद्धयते सुकृतचमूं जिगीषतः, समुद्यतं बलभरमेनमेनसः ॥२३॥ अयं प्रत्यक्षगतो बालिशो मूर्यो जनो मृगीदृशां स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजावेव वल्लि तस्यामिति अधिभुजवल्लि ।। विभक्त्यर्थेऽव्ययीभावः भुजलतायामित्यर्थः ।। विलोकते पश्यति ।। एनं वलयभरं एनसः पापस्य समुघतं सावधानीभूतं बलभरं सेनासमूहं न बुद्धयते ।। कथंभूतस्य एनसः?।।
॥१७॥
Jain Education Internet
For Personat & Private Use Only
Marwww.jainelibrary.org