Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 36
________________ श्री शृङ्गार वैराग्य SARASAR तरंगिणी ॥३१॥ SARKARISHRASIRSS (मंदाक्रान्ता) यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे, नायं हारश्चकितहरिणीलोचनायाश्चकास्ति ।। नाभीरंधे विहितवसतिर्योऽस्ति कंदर्पसर्प,स्तन्मुक्तोऽयं स्फुरति रुचिरः किंतु निर्मोकपट्टः ।।४३।। हे मित्र वयं इतोऽस्मात् अन्यत्र द्रुततरं अतिशीघ्रं यामो गच्छामः ।। चकितहरिणीलोचनायाः ।। चकिता हरिणी तस्या लोचने इव लोचने यस्याः तस्याः ।। कण्ठपीठे यत् चकास्ति शोभते अयं हारो नास्ति किंतु यः कंदर्पसर्पः कंदर्पः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्मुक्तः अयं रुचिरो मनोज्ञः निर्मोकपट्टः कंचुकः स्फुरति चकास्ति ।। कथंभूतः कंदर्पसर्पः ? नाभीरधे विहितवसतिः ।। नाभीरधे नाभीकुहरे विहिता कृता वसतिर्वासो येन स ना० अयमेवान्यत्र गमने हेतुः ।। सर्पकंचुकदर्शनमपि भयावहं ।। नाभीसर्पबिलं हारं सर्पकंचुकं तबुद्ध्या पलायनं युक्तमेवेत्यर्थः ।।४३।। (वसंततिलका) यः कामकामलविलुप्तविवेकचक्षुः, स्वर्गाऽपवर्गपुरमार्गमवीक्षमाणः ।। ज्ञानाञ्जनं प्रति निरादरतामुपैति, भ्रातः पतिष्यति स भीमभवांधकूपे ।।४४॥ S ॥३१॥ Jain Education Interna For Persona & Private Use Only mvww.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40