Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 34
________________ श्री शृङ्गार वैराग्य तरंगिणी IR९॥ कणक्लाम्यदृष्टिः यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वैचित्त्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः ।। अत एव अदृष्टशाश्वतपथः न दृष्टः शाश्वतस्य शिवस्य पंथा मागर्गो येन सः रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ।।३९।। (मालिनी) शमधनमुपहर्तुं कामचौरप्रचारं, विरचयति निकामं कामिनी यामिनीयम् ।। सपदि विदधती या मोहनिद्रासमुद्रां, जनयति जनमंतःसर्वचैतन्यशून्यम् ।।४।। इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यंत कामचौरप्रचारं काम एव चौरस्तस्य प्रचारं विहरणशीलत्वं विरचयति प्रकटीकुरुते ।। किं कर्तुं ?|| शमधनमुपहर्तुं शम उपशम एव धनं तद्गृहीतुं यामिन्यां धनाहरणार्थं चौरप्रचारो भवति ।। या यामिनी जनं मनुष्यं अंतःसर्वचैतन्यशून्यं अंतरिति अन्तःकरणे सर्वं च तत् चैतन्य च तेन शून्यं रहितं जनयति करोति ।। यामिनी किं कुर्वती सपदि तत्कालं मोहनिद्रासमुद्रां मोहो मूर्छा एव निद्रा तस्याः समुद्रां समृद्धिं विदधती ।।४०।। (उपजाति) मृगेक्षणा नूनमसावसीमा, भीमाटवी बुद्धिमतामतीत्या ॥ यदबाहवल्लीभिरनंगभिल्लो, बद्धवा नरान लंभयते न मुक्तिम् ।।४१॥ समुद्रा समृद्धि विना ।। यामिनी कितन्यशून्यं अंतति ॥२९॥ Jain Education Intern For Personal & Private Use Only Kllwww.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40