Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 32
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥२७॥ दूरीकुर्वन्ति स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः ।। कथंभूता युवति०? नीरागैर्विमुक्ताः नीराणि च अगाश्च नीरागास्तैः जलवृक्षैर्विमुक्ताः ।। जलेन वृक्षच्छायया च तृषाहानिर्भवति ।।पुनः कथंभूता युवतिनितं०?।। विषमशरसंपातविषमाः ।। विषमा असह्या ये शरसम्पाता बाणपातास्तैर्विषमा दुष्टाः अस्यां भुवि व्याधादिभिर्बाणपातो विधीयते तेन तव मरणं भविष्यति न तु तृष्णाहानिरित्यर्थः ।।पक्षे कथंभूता युवति०?।। नीरागैः रागरहितैर्विमुक्तास्त्यक्ताः ।। विषमशरः कामस्तस्य संपातेन विषमा अमनोज्ञाः ।। एतेन युवतिनितंबवांछां मा कुरु इति चित्तं प्रत्युपदेशः ।।३७।। (शार्दूलविक्रीडितम्) चेतश्चापलमाकलय्य कुटिलाकारां कुरंगीदृशो, दृष्ट्वा कुन्तलराजिमजनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना स्वीकर्तुकामस्य मे, प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः॥३८॥ हे चेतस्त्वं कुरंगीदृशो मृगाक्ष्याः ।। कुन्तलराजिं शिरोरुहश्रेणिं दृष्ट्वा चापलमाकलय्य चांचल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोषि ।। कथंभूतां कुन्तलराजिं?।।कुटिलाकारांकुटिलो वक्र आकारो यस्यास्तां ।। पुनः कथंभूतां कुं०?।। अंजनघनश्यामां अंजनं कज्जलं घनो मेघस्तद्वत् श्यामा कृष्णां ।। केशानां कृष्णत्वं IR७॥ Jain Education International For Personal & Private Use Only lww.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40