Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 30
________________ श्री शृङ्गार वैराग्य तरंगिणी IR५॥ इहास्मिन् संसारे कः पुरुषो विषयभोगं पंचेद्रियसुखं स्पृहयति वांछति ।। कथंभूतं-वि० पुण्यकर्मायशून्यं । पुण्यकर्मणः आयो लाभस्तेन शून्यं ।। तत्त्वतस्त्वं विषभोगं भावयेः जानीहि ।। विषयभोगं विषभक्षणतुल्यं जानीहीत्यर्थः ।। तदेव स्पष्टयति ।। येन विषयभोगेन मूर्च्छितो मोहं प्राप्तो जंतुः प्राणी करणीयं करणाहँ न स्मरति ॥पुनः मोक्षमार्गन ईक्षते ॥कुगतिगर्ते पतति ।। विषभक्षकस्य स्मरणादिभ्रंशकत्वं प्रकटमेव विषयभोगो विषभोगो भवतीत्यर्थः ॥३४।। (उपजाति) सखे सुखं वैषयिकं यदेत,-दाभासते तन्नरकान्तमन्तः ।। सत्यं तदुत्सर्पदघप्रबंध-निबन्धनत्वान्नरकान्तमेव ॥३५॥ हे सखे हे नर एतत् वैषयिकं विषयेभ्यो भवं वैषयिकं सुखं ते तव अंतः चेतसि कांतं मनोज्ञं यत् आभासते तत्सत्यं मिथ्या नेत्यर्थः ।। उत्सर्पदघप्रबंधनिबंधनत्वात् ।। उत्सर्पन्प्रसर्पन यः अघस्य पापस्य प्रबंधः परंपरा तस्य निबंधनं कारणं तस्य भावस्तत्त्वं तस्मानरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तं नरकप्रापकमित्यर्थः ।। अत्र पद्ये पूर्वत्र नरकान्तमिति भिन्नं पदं परत्र नरकान्तमिति समस्तं पदमिति चित्रकृत् ।।३५।। (शिखरिणी) स्मक्रीडावाप्यां वदनकमले पक्ष्मलदृशां, दृढासक्तिर्येषामधरमधुपानं विदधताम् ॥ अदूरस्था बन्धव्यसनघटना क्लेशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ।।३६॥ %A8%25ASSSSSSSS VIR५॥ Jain Education Internal For Personal&Privateuse Only lwww.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40