Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 29
________________ श्री शृङ्गार वैराग्य तरंगिणी IR४॥ (शार्दूलविक्रीडितम्) प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता, देहधुत्या कनकनिभया द्योतिताशा विवेकिन् ।। सत्यं तासामनलसदृशां संयमारामराज्यं, मा भूः पार्श्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥३३।। हे विवेकिन या एतास्तरुण्यो नार्यः तव प्रीतिं हर्षं तन्वन्ति विस्तारन्ति ।। कथंभूतास्तरुण्यः ?।। अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अनलसदृशः उन्निद्रनेत्रा इत्यर्थः ।। पुनः किंविशिष्टास्तरुण्यः?।। कनकनिमया स्वर्णतुल्यया देहधुत्या शरीरकांत्या घोतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः ।। संयमारामराज्यं संयमश्चारित्रं स एव आरामस्तस्य राज्यं परंपरा तस्यां विषये तासां स्त्रीणां अनलसदृशां अग्नुितल्यानां ।।सत्यं स्त्रीसंपर्काच्चारित्रवनदाहो भवत्येवेत्यर्थः ।। यदि त्वं शिवावाप्तये मोक्षप्राप्त्यै बद्धबुद्धिः बद्धा बुद्धिर्येन स तादृशोऽसि तदा तासां पार्वेऽपि समीपेऽपि मा भूः ।। अत्र पद्ये अनलसदृशत्वं एकत्र वर्णत्वेन अपरत्र दाहकशक्तित्वेनोपादानं चित्रकृत् ।।३३।। (मालिनी) क इह विषयभोगं पुण्यकर्मायशून्यं, स्पृहयति विषभोगं भावयेस्तत्त्वतस्त्वम् ।। स्मरति न करणीयं मूर्छितो येन जंतुः, पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥३४॥ IR४॥ Jain Education interne www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40