Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार वैराग्य तरंगिणी IR३॥
या स्त्रीति नाना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धैर्जानिभिः शमादावुपशमादिकर्मणि शस्त्री ।। अमुक्तायुधं अमुक्तं शस्त्रीप्रमुखमिति ।। क्षुरी शस्त्री कृपाणिकेति नामकोशः ।।अवबुध्यतां ज्ञायतां ।। यतो यस्मात् अनंगभटः कामसुभटः जगति संसारे एनां स्त्रीरूपां शस्त्री पुरस्कृत्य अग्रे कृत्वा पुण्यभटं धर्मसुभटं भिनत्ति भेदनं करोति । सुभटेन प्रतिसुभटं शस्त्र्या भेदनं विधीयत एव ।। स्त्रीति शस्त्री कथं तत्रोच्यते?।। शमादौ या स्त्री शं शकारमादौ बिभृते तदा स्त्री शस्त्री स्यादेवेत्यर्थः ।।३१।।
(वसंततिलका) येयं वधूरवसिता हृदये प्रमोद,-संपादनव्यतिकरैकनिबन्धनं ते ॥
सा दुर्गदुर्गतिपथेन जगन्निनीषो,-धूरव मन्मथरथस्य विभावनीया ॥३२॥ या इयं वधूस्ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिबंधनं ।। हृदये यः प्रमोदस्तस्य संपादनमुत्पादनं तस्य यो व्यतिकरः समूहः तस्य निबंधनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया मन्यत इत्यर्थः ।। सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या ।। कथंभूतस्य मन्मथरथस्य ।। जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेनरकादिगतेः पंथाः दुर्गतिपथः ।।रुक्पूरब्धःपथामानक्षे इति अप्रत्ययः ।। दुर्गो यो दुर्गतिपथस्तेन ॥ निनीषोर्नेतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धूरस्ति न वधूरित्यर्थः ।। वधूः धूः कथं तत्रोच्यते ।। वेन वकारेण सिता बद्धा वसिता न वसिता अवसिता वकाररहिता वधूधूरेव स्यादित्यर्थः ॥३२॥
॥२३॥
Jain Education Intern
For Personal & Private Use Only
vww.jainelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40