Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 26
________________ श्री शृङ्गार वैराग्य तरंगिणी IR१॥ मृगाक्ष्याः स्त्रियाः जघनं समीक्ष्य दृष्टवा किं तोषभरं हर्षभरं तनोषि विस्तारयसि ।। कथंभूतं जघनं?।। जडोपयुक्तं जडानां मूर्खाणां उपयुक्तं योग्य अमुं जघनं घनं मेघमेव विद्या जानीयाः ।। कथंभूतं जघनं?।। विशुद्धाध्यवसायहंसप्रवासहेतुं विशुद्धो निर्मलो यः अध्यवसायः चित्ताभिप्रायः स एव हंसः तस्य यः प्रवासः तस्य हेतुः कारणं तं विशुद्धा० ॥ धनागमे हंसा मानसे गच्छंतीति प्रसिद्धं ।। जघनं घनं कथं ? तत्राह ।। जडोपयुक्तं डलयोश्चैकत्वस्मरणात् जलोपयुक्तं ।। जस्य जकारस्य लोपो नाशस्तेन युक्तं जकारं विना जघनं घनं स्यात् ।। २८॥ (उपेन्द्रवज्रा) नितंबमुल्लासिततापनोदं, दिदृक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा, तं निंबमेव त्यज दूरतोऽपि ॥२९॥ कमलेक्षणानां (स्त्रीणां) कमलनयनानां यं नितंब पृष्ठभाग दिदृक्षसे द्रष्टुमिच्छसि ।। कथंभूतं नितंबं उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं येन सः तं ॥ तं नितंब निबमेव रिष्टं विदित्वा दूरतोऽपि त्यज । कथंभूतं निंब ?।।सर्वात्मना पत्रफलपुष्पसमूहेन अत्यंतकटुं अतिकटुकं ।। नितंबं कथं निंबमिति प्रश्ने तत्रोच्यते ।। कथंभूतं निबं?।। उल्लासिततापनोदं ।उल्लासितस्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तं ।। तकारनाशे नितंबो निंबः स्यादेवेत्यर्थः ।। २९॥ IR१॥ Jain Education Internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40