Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार
वैराग्य तरंगिणी IR८॥
यौवने तधुक्तां स्त्रियं दृष्ट्वा चित्तचलनं न्याय्यं ।। उक्तं च ।। पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा च नवयौवनाम् ।। द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ।।१।। इति मे मम प्रत्यूहाथ विघ्नार्थं आधुना इदानी उपस्थिता प्राप्ता इयं उरगश्रेणी सर्पपरंपरा इति त्वं संचिंतयेः जानीयाः ।। कथंभूतस्य मे?॥धर्मध्यानमहानिधानम् स्वीकर्तुकामस्य अंगीकुर्वतः धर्मध्यानं धर्मचिंतनं तदेव महानिधानं । यत्किंचित्कार्यकरणोद्यतस्य सर्पदर्शनं निषिद्धं ।। निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः ।। कुंतलस्य सर्पोपमानत्वं कविसंमतमेव ।।३८।।
(शार्दूलविक्रीडितम्) यातुं यद्यनुरु च्यते शिवपुरी रामानितंबस्थली, मुंचेर्दूरमिमामनंगकलभक्रीडाविहारोचिताम् ।। नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण-,
क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् ॥३९॥ हे पुमन् यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गंतुं अनुरुच्यते तदा त्वं इमां रामानितंबस्थली स्त्रीनितंबभूमि दूर दूरतो मुंचेः । कथंभू०? रामानितं०?।। अनंगकलभक्रीडाविहारोचितां अनंगः कामः स एव कलभः गजशिशुः तस्य क्रीडा विहारो विहरणं तत्रोचितां योग्यां ।। चेदिमां दूरं न मुंचसि तदा किं भविष्यति तदाह ।। नोचेदिति त्वं जन्माटवी संसाराटवीं प्राप्नोषि ।। कथंभूतस्त्वं ? यौवनचण्डवातविततव्यामोहधूली
For Personal & Private Use Only
IRCII
Jain Education Intern
www.jainelibrary.org
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40