Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 31
________________ श्री शृङ्गार वैराग्य तरंगिणी IR६॥ **SHRSSSSSHRSHIRSHRSHA स्मरक्रीडावाप्यां स्मरक्रीडार्थं वापी तस्यां येषां मनुष्याणां पक्ष्मलदृशां स्त्रीणां वदनकमले वदनमेव कमलं तत्र दृढासक्तिः दृढा आसक्तिः तन्मयता वर्त्तते इति शेषः ।। किं कुर्वतां येषां ।। अधरमधुपानं विदधतां अधरमेव मधु पुष्परसः तस्य पानं तत् कुर्वतां ।। तेषां नृणां इह वदनकमले मधुकराणां भ्रमराणामिव बंधव्यसनघटना बंधेन बंधनेन यद्व्यसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति ।। कथंभूतानां मधुकराणां ?।। नृणां च विमुग्धानां मोहदशां प्राप्तानां ।। कथं० बन्धव्य०?।। क्लेशमहती क्लेशेन महती दुःसहा ।। यथा भ्रमराणां कमले मधुपानं कुर्वतां दृढासक्तिबंधनकष्टदायिनी तथा नृणां स्त्रीमुखकमले अधररसपानं कुर्वतां वधबंधनादिकष्टं भवतीत्यर्थः ।। ३६।। (शार्दूलविक्रीडितम्) सखे सन्तोषाम्भः पिब चपलतामुत्सज निजां, शमारामे कामं विरचय रुचिं चित्तहरिण ! ॥ हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो, विमुक्ता नीरागैर्विषमशरसम्पातविषमाः ॥३७॥ हे सखे हे चित्तहरिण चित्तमेव हरिणो मृगस्तस्य संबोधनं ।। चित्तस्य चांचल्यान्मृगसादृश्यं ।। त्वं संतोषांभः पिब सन्तोष एव अंभो जलं त्वं पिब ।। निजां स्वकीयां चपलतां चापल्यमुत्सृज त्यज काममत्यर्थं शमारामे शम एव आरामस्तस्मिन् उपशमवने रुचिं तुष्टिं विरचय कुरु ।। मृगस्य वनेऽधिकरुचित्वात् इष्टोपदेशः ।। एता युवतिनितंबस्थलभुवः युवतीनां नितंबाः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां तृषां न हरन्ति न MIR६॥ Jain Education Inter For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40