Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 35
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३०॥ ABHARASHRSHARABHAR नूनं निश्चितं असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री ।। भीमाटवी भयानकारण्यं वर्त्तते इति शेषः ।। कथंभूता भीमाटवी? असीमा न विद्यते सीमा मर्यादा यस्याः ।। पुनः कथंभूता?|| बुद्धिमतां विदुषां अतीत्यातिक्रमणीया यद्बाहुवल्लीभिः यस्या मृगेक्षणाया बाहू एव वल्लयो लतास्ताभिः अनंगभिल्लो अनंग एव भिल्लस्तस्करः नरान् मनुष्यान् बवा मुक्तिं न लंभयते न कारयति यथा अटव्यां तस्करः पथिकान् लताभिर्बवा सर्वस्वं गृह्णाति ।। तथा मृगेक्षणापि कंठग्रहणं कृत्वा नरान्मुक्तिप्राप्तिं न कारयतीति भावार्थः ।। ४१।। (शिखरिणी) इयं वारंवारं द्युतितुलितरोलंबवलयं, न वक्र भ्रूचक्रं चलयति मृगाक्षी मम पुरः ॥ कुधीकारागारापसरणमतिं मां स्खलयितुं, प्रपंचत्पंचेषोर्वहति निबिडं लोहनिगडम् ।।४२॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात् वक्रं भ्रूचक्रं वारंवारं अनुवेलं न चलयति ।। कथंभूतं भ्रूचक्रं ? द्युतितुलितरोलंबवलयं ॥ द्युत्या कान्त्या तुलितः समानीकृतो रोलंबानां भ्रमराणां वलयो वृत्तता येन ।। किमेतत्तदाह मां स्खलयितुं गमनाभावं कर्तुं पंचेषोः पंच इषवो बाणा यस्य तादृशस्य कामस्य निबिडं दुस्सहं लोहनिगडं वहति धारयति ।। किं० लोहनिगडं ?।। प्रपंचत् प्रपंचयुक्तं ।। कथंभूतं मां?।। कुधीकारागारापसरणमतिं कुत्सिता धीः कुधीः सैव कारागारो बंदिस्थानं तस्मादपसरणे दूरगमने मतिर्यस्य तं । यथा चौरस्य लोहनिगडं क्षिप्त्वा कारागारे क्षिप्यते तथा मामपि वशीकर्तुं भ्रूचक्रकामस्य निगडं धत्ते इत्यर्थः ।।४२।। ASHASTRA ॥३०॥ Jain Education internal For Personal & Private Use Only Kilwww.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40