Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार
वैराग्य तरंगिणी IR२॥
FASSASARASHISHASHRSHASHA
(शार्दूलविक्रीडितम्) नूनं नूपुरमेतदायतदृशो रागादिविद्वेषिणां, क्रीडार्थ पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् ॥ येनास्मिन्मुखमात्रचंगिमगुणैराकृष्य तैरुल्बणै
बद्धस्य प्रसभं चिरादपि सखे मुक्तिर्भवित्री न ते ॥३०॥ नूनं निश्चितं आयतदृशः आयते विस्तीर्णे दृशौ यस्यास्तस्या विशालनयनायाः (स्त्रियाः) एतन्नूपुरं चरणभूषणं रागादिविद्वेषिणां रागादिशत्रूणां क्रीडार्थं विनोदार्थं पुरं नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यं ।। शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः ।। हे सखे येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मुखमात्रचंगिमगुणैः ।। मुखमात्रे ये चंगिमाः श्रेष्ठाः गुणास्तैरुल्बणैरुदारैराकृष्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि चिरकालेनापि मुक्तिर्मोचनं न भवित्री ।। नूपुरं पुरं कथमिति प्रश्ने ।। तत्र कथंभूतं नूपुरं? नूनं नूशब्देन ऊनं नूनं नूशब्दरहितं नूपुरं पुरं भवतीति ।।३०।।
(उपजातिः) या स्त्रीति नाम्ना बिभृते शमादौ, शस्त्री प्रबुद्धैरवबुद्ध्यतां सा ।। एनां पुरस्कृत्य जगत्यनंगभटो यतः पुण्यभटं भिनत्ति ॥३१॥
IR२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40