Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 25
________________ श्री शृङ्गार वैराग्य तरंगिणी IR०॥ नो ईक्षसे न विचारयसि ॥ कथंभूतं दरं ?। दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तस्मिन् संभव उत्पत्तिर्यस्य तं ।।अत्र पूर्वं अंगनोदरमिति समस्तं पदं ॥परत्र अंग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ।।२६॥ (वसंततिलका) स्फूर्जन्मनोभवभुजंगमपाशनाभि, नाभी कुरंगकदृशां दृशि यस्य लग्ना ।। नाभीमयं जगदशेषमुदीक्षतेऽसौ, यो यत्र रज्यति स तन्मयमेव पश्येत् ।२७।। यस्य पुरुषस्य दृशि नेत्रे कुरंगकदृशां मृगनेत्राणां स्त्रीणां नाभी शरीरावयवविशेषः लग्ना ।। कथंभूता नाभी?।। स्फूर्जन्मनोभवभुजंगमपाशनाभी स्फूर्जन देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पस्तस्य पाशार्थं नाभी ।। कामसर्पस्थानमित्यर्थः ।। असौ पुमानशेष समस्तं जगत् नाभीमयं अभीमयं निर्भयं नोदीक्षते ।। न निर्भयं जगदीक्षत इत्यर्थः ॥ यः पुरुषः यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति ॥ नाभी दृशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रं ॥ नाभीनाभीमयमिति चित्रकृत् ।। २७॥ (उपेन्द्रवजा) जडोपयुक्तं जघनं मृगाक्ष्याः, समीक्ष्य किं तोषभरं तनोषि । अमुं विशुद्धाध्यवसायहंस,-प्रवासहेतुं घनमेव विद्याः ।।२८॥ IIR०॥ Jain Education intern For Personal & Private Use Only W w w.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40