Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 24
________________ श्री शृङ्गार वैराग्य तरंगिणी 1198 11 Jain Education Inter (इन्द्रवज्रा ) नीव्याप्तमस्या हरिणेक्षणाया, यं वीक्ष्य हारं हृदि हर्षमेषि ॥ विवेकपंकेरुहकाननस्य, तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि हृदये हर्षं प्रमोदं एषि प्राप्नोषि ।। कथंभूतं हारं ? | नीव्याप्तं नीवीं वसनग्रंथिं आप्तं प्राप्तं नीव्याप्तं नीवीपर्यन्तं लंबायमानमित्यर्थः ।। बुधाः तं हारमेव विवेकपंकेरुहकाननस्य विवेक एव पंकेरुहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति ॥ नीहारो यथा कमलकाननस्य दाहकस्तथा यं हारं हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथं नीहारमिति प्रश्ने तत्रोच्यते ॥ कथंभूतं हारं ? ।। नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्तं एतादृशं हारं नीहारं स्यात् ।।२५।। (वंशस्थ ) विलोक्य किं सुन्दरमंगनोदरं करोषि मोहं मदनज्वरातुर ॥ नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमंगनोदरम् ॥२६॥ मदनज्वरातुर मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनं सुंदरं दर्शनार्हं अंगनोदरं अंगनाया उदरं विलोक्य त्वं किं मोहं करोषि ।। अंगेत्यामंत्रणे ॥ भवांतरे आगामि भवे भाविनं भवनशीलं दरं भयं किं For Personal & Private Use Only 1198 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40