Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 23
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१८॥ सुकृतचमूं सुकृतस्य शीलादेः चमूः सेना तां जिगीषतः जेतुमिच्छतः ।। कथं वलयभरं बलभरमिति तत्रोच्यते । कथंभूतं वलयभरं ? अयं न विद्यते यो यकारो यस्मिन् सः अयस्तमयं यकाररहितमित्यर्थः ।।२३।। (वसंततिलका) ये दृकुपथे तव पतति नितंबिनीनां कान्ताः, करा जडिमपल्लवनप्रवीणाः ।। नो वेत्सि तान् किमपवर्गपुरप्रयाण,-प्रत्यूहकारणतया करकानवश्यम् ॥२४॥ तव दृक्पथे दृष्टिमार्गे नितंबिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः नितंबिनीनामिति संबन्धे बहुत्वात् करा इति बहुत्वं पतति अवलोकनतां गच्छन्ति ।। कथंभूताः कराः?।। जडिमपल्लवनप्रवीणाः जडिम्नः जडता या यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाः चतुराः तान् करान् अवश्य निश्चयेन करकान् घनोपलान् किं नो वेत्सि न जानासि ।। कया?।। अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्षः स एव पुरं नगरं तस्मिन् प्रयाणं गमनं तत्र यः प्रत्यूहो विघ्नस्तत्र यत्कारणं निदानं तस्य भावः तत्ता तया अपवर्ग० ।। गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विघ्नकारणं प्रसिद्धमेव ।। उक्तं च वसंतराजशाकुने ॥ क्षीणचंद्रतिथि दुःसहानलं दूषितं धरणि कंपनादिना।।पूर्ववज्जालदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनमिति।।अकालवृष्टिर्गमने निषिद्धा । करकपतनं त्ववश्यं वर्त्यमेव ।। करान् करकान् कथमिति प्रश्नोत्तरं ।। कथंभूताः कराः?|| कान्ताः ककारान्ता इत्यर्थः ।। तादृशाः कराः करका भवत्येवेत्यर्थः ।। २४।। 1॥१८॥ Jain Education Intern For Personal & Private Use Only |vww.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40