Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 21
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१६॥ बहिःप्राणहरस्तस्मिन् बाह्यप्राणनाशके ।।स्टेणे स्त्रीणामयं स्त्रैणस्तस्मिन् ।।स्त्रीपुंसाभ्यां नस्नाविति नञ्प्रत्यये आदिवृद्धौ णत्वे स्त्रैणशब्दसिद्धिः ।। बाहौ भुजे कंठावसक्ते सति यः प्रमोदो हर्षः स विदुषां पंडितानां युक्तो न ।। कथंभूते बाहौ ?।। विध्वस्तधर्मान्तरजीविते विध्वस्तं नाशितं धर्म एव अन्तरजीवितं येन तस्मिन् ।। अन्तरप्राण-नाशके इत्यर्थः ।। अहिस्तु कंठावसक्तः सन् बहिःप्राणान्नाशयति स्त्रीणां बाहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते ।। अतः सादप्यधिकतरदुःखदं स्त्रीकृतालिंगनमित्यर्थः ।। अत्र नवाहावित्युभयत्र चित्रकृत् ।। वबयोरभेदस्तु आलंकारिकैरिष्ट एव ।।२०।। (वंशस्थ) कोयं विवेकस्तव यन्नतभ्रुवां, दोषावगूढः प्रमदं विगाहसे ।। यतः स्मरातंकपरीतचेतसां, किं सुंदरासुन्दरयोर्विवेचनम् ।।२१।। हे साधो अयं तव को विवेकः यत् नतभ्रुवां नते नम्रीभूते भ्रुवौ यासां ताः नतभ्रवस्तासां स्त्रीणां दोषा बाहुनाऽवगूढः आलिंगितः सन् त्वं प्रमदं प्रकृष्टमदं विगाहसे प्राप्नोषीत्यर्थः ।। यतो यस्मात् स्मरातंकपरीतचेतसां स्मरः कामः स एव आतंको रोगस्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुंदरासुंदरयोः समीचीनासमीचीनयोः किं विवेचनं ।। अपस्मारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव ।। पक्षे दोषैरवगूढो दोषावगूढोऽ विवेकदोषयुक्त इत्यर्थः ।।२१।। १६॥ Jain Education Interior For Personal & Private Use Only "www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40