Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार
वैराग्य तरंगिणी ||१४||
(शार्दूलविक्रीडितम्) कंदर्पद्विपकुम्भचारु णि कुचद्वंद्वे मृगाक्ष्या मया, न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मास्मभूः ॥ किं त्वाजन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां,
हस्तोऽयंसुकृतस्य तस्य सहसाऽदायीति संचिंतयेः ॥१८॥ मया मृगाक्ष्याः स्त्रियाः कुचद्वंद्वे स्तनयुग्मे हस्तो न्यस्तः करः स्थापितः ।। कथंभूते कुचद्वंद्वे ? ।। कंदर्पद्विपकुंभचारुणि कंदर्प एव द्विपस्तस्य कुंभोगंडस्थलं तद्वच्चारु मनोज्ञं तस्मिन् कंदर्प० इति हेतोः प्रमोदमदिरामाधन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया माद्यन्मनो यस्य स एतादृशस्त्वं मास्मभूः ॥माङि लुडिति लुङ् न माड्योगे इत्यडागमाभावः ॥ किं तु बहुविधा तपोनुष्ठानादिरूपां कष्टक्रिया कष्टसाध्या क्रिया कष्टक्रिया तां क० ॥ अभ्यस्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्य यत् सुकृतमर्जितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः ।। यथा कस्य आजिगमिषोः हस्तप्रदानं संज्ञया निषेधयति तथा हस्तदानेन सुकृतं निषिद्ध इति त्वं संचिन्तयेः विचारयेरित्यर्थः ।। अत्र पद्ये हस्तो न्यस्तः सुकृतस्य हस्तोऽदायीति चित्रकृत् ।।१८॥
||१४॥
Jain Education Interi
For Personal & Private Use Only
Twww.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40