Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार
वैराग्य तरंगिणी ॥१५॥
RSANSARASSASSASARAS
(इंद्रवंश) कंठोपकंठे लुलितं विभावये, भुजं युवत्या भुजगं गराजितम् ।।
एतस्य संस्पर्शवशादपि क्षणा,-दशेषचैतन्यमुपैति संक्षयम् ।।१९।। कंठोपकंठे कंठस्य गलस्य समीपे कंठोपकण्ठे लुलितं वलितं ।। युवत्याः स्त्रिया भुज बाहुं भुजगं सर्प त्वं विभावयेर्जानीयाः ।। कथंभूतं भुजगं । गराजित गरेण विषेण अजितो गराजितस्तं ॥ एतस्य भुजगस्य संस्पर्शवशात् स्पर्शमात्रेणापि अशेषं समस्तं चैतन्यं चेतनाया भावः क्षणात् संक्षयं नाशं उपैति प्राप्नोति यथा भुजगस्पर्शाच्चैतन्यं याति तथा युवत्या भुजस्पशदिव चैतन्यनाशः स्यादित्यर्थः ।। भुजं भुजगं कथं स्यादितिप्रश्ने । भुजं गराजितं ।। गेन गकारेण राजितं भुजं भुजगं स्यादित्यर्थः ।। १९।।
(इन्द्रवजा) कण्ठावसक्ते कुपिते नवाहौ, वरं बहिःप्राणहरे प्रमोदः ॥
विध्वस्तधर्मान्तरजीविते नुः, स्त्रैणे नवाही विदुषां स युक्तः ॥२०॥ नुः पुरुषस्य नवाही नवश्वाऽसावहिश्च नवाहिस्तस्मिन्नवीनस कण्ठावसक्ते कण्ठस्थापिते वरं श्रेष्ठं ।। कथंभूते नवाहौ ?।। कुपिते क्रुद्धे ।। पुनः कथंभूते नवाहौ ?।। बहिःप्राणहरे ।। बहिःप्राणान् हरतीति
१५॥
JainEducation internet
For Personat & Private Use Only
Twww.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40