Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 16
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥११॥ कुंडलयुगं ?।। स्फुरदरुणरत्नौघकिरणप्रतानं स्फुरंतो देदीप्यमाना ये अरुणरत्नौघा रक्तरत्नसमूहास्तेषां ये किरणास्तेषां प्रतानं समूहो यस्मिंस्तत् ।।पुनः कथंभूतं कुंड०?| तरलतरलम् तरलाच्चंचला- त्तरलं चंचलं चंचलतरमित्यर्थः ।। कथंभूतं कुंडलयुगलं? विरहसंयोगदशयोः स्त्रीपुंसयोः संयोगाभावाद्विरहोत्पत्तिः विरहश्च संयोगश्च विरहसंयोगौ तयोर्दशे अवस्थे तयोः शोकानंगज्वलनयुक् शोकश्चानंगज्वलनश्च शोकानंगज्वलनौ ताभ्यां युक् विरहे शोकाविर्भावः संयोगे कामानेराविर्भाव इत्यर्थः ।। कुंडलयुगलं किं कुर्वन् ?।। इह संसारे पुंसां पुरुषाणां दममुपशमं दुग्धं पयः ।।ज्वलकुंडलयुगं कुंडयुगलं कथं तत्रोच्यते ।।तरलतरलश्चंचलतरः लो लकारो यस्मिन् ।। कुंडलशब्दालकारे कुंडलयुगस्य चंचलत्वात् युगशब्दात्परतः स्थिते सति कुंडयुगलं स्यादित्यर्थः ।।१३।। (अनुष्टुप) ताडकं सस्पृहं तस्याः, पश्यन्मूढः परे भवे ।। नरो नरकपालेभ्य, स्ताडं कं न सहिष्यते ॥१४॥ __ मूढो नरस्तस्याः स्त्रियाः सस्पृहं साभिलाषं यथा स्यात्तथा ताडकं कर्णभूषणं पश्यन् परे भवे आगामिभवे नरकपालेभ्यः नरकान् पालयन्ति ते नरकपालास्तेभ्यः परमाधार्मिकेभ्यः कं ताडं ताडनं ताड: आघातस्तं कं न सहिष्यते अपि तु सर्वं सहिष्यते ।।१४।। 199॥ Jain Education Interna For Personal & Private Use Only arww.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40