Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 13
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥८॥ (उपजातिः) साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि ।। इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥९॥ हे मुग्धबुद्धे मुग्धा बुद्धिर्यस्य तत्संबोधनं तरुण्या मुखं आलोक्य किं मुदं हर्ष आदधासि धारयसि ।। कथंभूतं मुखं ?।। साकारं आकारेण सह वर्त्तमानं साकारं सुंदरमित्यर्थः ।। हि निश्चितं इदं मुखं विचक्षणैर्विद्वद्भिः चित्तभ्रमनाटकस्य चित्तभ्रम एव नाटकस्तस्य आमुखमाद्यारंभ आचचक्षे इत्यत्र कर्मणि लिट् ।। मुखम् आमुखं त्वित्थं ।। साकारं आकारेण सह वर्त्तमानं मुखं आमुखं स्यादित्यर्थः ।।९।। (वसंततिलका) कामज्वरातुरमते तव सर्वदास्य, वाम-वां यदि कथंचिदवाप्तुमिच्छा ।। यत्रं विनाप्यखिलजन्मपरंपरासु, तज्जातमेव भवतो ननु सर्वदास्यं ॥१०॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे काम० ॥ सर्वदा सर्वस्मिन्काले यदि तव वामध्रुवां स्त्रीणां आस्यं मुखं कथंचित्केनापि प्रकारेण अवाप्तुं प्राप्तुमिच्छा वर्त्तते । तदा ननु निश्चितं यलं विनापि अखिलजन्मपरंपरासु । जन्मनः परंपराः श्रेणयः अखिला या जन्मपरंपरास्तासु भवतस्तव सर्वदास्यं दासस्य भावो दास्यं सर्वेषां भृत्यत्वं जातमेव ।। स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव ।। अत्र पद्ये उभयत्र सर्वदास्यमिति पदस्य भिन्नार्थमेव चित्रं ।।१०।। ||॥८॥ Jain Education Internal or Personal & Private Use Only ||ww.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40