Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay,
Publisher: Smrutimandir Prakashan
View full book text ________________
श्री शृङ्गार वैराग्य
तरंगिणी
॥६॥
Jain Education Inten
तरतमेति पुंवद्भावः ।। श्रेष्ठतरा भूः भूमिः सा मोहविषद्रुमस्य मोह एव विषद्रुमस्तस्य निबंधनं आविर्भावं प्रसूते उत्पादयति ।। भ्रूर्भूः कथमिति प्रश्ने सा प्रसिद्धा भ्रूः । धुतरा ।। धुतो गतो रो रेफो यस्या ईदृशी भ्रूर्भूर्भवतीत्यर्थः ।।६।।
(मालिनी)
नवकुवलयदामश्यामलान् दृष्टिपातान् कृतपरमदनाशान् विक्षिपत्यायताक्षी ॥ इति वहसि मुदं किं मोहराजप्रयुक्तान् प्रशमभटवधार्थं विद्ध्यमून्ॠष्टिपातान् ॥७॥
आयताक्षी ।। आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा मामुद्दिश्य दृष्टिपातान् कटाक्षान् विक्षिपति प्रयुङ्क्ते ।। किंविशिष्टान् दृष्टिपातान् ? ।। नवकुवलयदामश्यामलान् । नवानि यानि कुवलयानि तेषां दाम माला तद्वत् श्यामलाः कृष्णास्तान् श्यामलान् ।। पुनः किंविशिष्टान् दृष्टिपातान् ? ।। कृतपरमदनाशान् कृतः परमदस्य नाशो यैस्तान् ।। इति मुदं हर्षं किं वहसि प्राप्नोषि अमून् दृष्टिपातान् प्रशमभटवधार्थं प्रशमः शान्तिभावः स एव भटः तस्य वधार्थं ॥ मोहराजप्रयुक्तान् मोह एव राजा मोहराजः ।। राजाहः सखिभ्यष्टच् समासतः । तेन प्रयुक्तान् ऋष्टिपातान् तरवारिपातान् । तरवारिरपि द्वौ च ऋटिरिष्टी अषंडकाविति नामकोशः ॥ विद्धि जानीहि ।। दृष्टिपातान् ऋष्टिपातान् जानीहि ।। तत्कथं ।। कृतपरमदनाशान् । कृतः परमः
For Personal & Private Use Only
|||६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40