Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 12
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥७॥ RAHARASHARBARABASA सर्वात्मना दस्य दकारस्य नाशो यत्र ते कृतपरमदनाशास्तान् ।। दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव ।। (शार्दूलविक्रीडितम्) तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः, संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्त्यजेः ।। एतस्मिन्वसता मनोभवमहासर्पण दष्टः पुमान, कार्याकार्यविवेकशून्यहृदयः कस्को न संजायते ॥८॥ हे सखे तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं स्मरन् स्मृतिविषयं कुर्वन् त्वं आत्मनः स्वस्य संतापं वितनोषि विस्तारयसि ।। कथंभूतं आननं ?॥कोपपदं कोपस्य पदं स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञात्वा त्वं त्यजेः ।। एतस्मिन्कानने वसता स्थितिं कुर्वता मनोभवमहासर्पण मनोभव कामः स एव महासर्पस्तेन पुमान् दष्ट सन् कस्कः ।। सर्वस्य द्वे इति द्वित्वं ।। कस्कादित्वात्सत्वं । कार्याकार्यविवेकशून्यहृदयः । कार्यं चाकार्यं च कार्याकार्ये तयोर्विवेकस्तेन शून्यं हृदयं यस्य स तथा न संजायते ।। सर्पविषेण मूर्च्छितः पुमान् शून्यहृदयो भवति ।। अयं तु महासर्पण दष्टस्तस्य किं वाच्यं ।। आननं काननं कथमिति प्रश्ने । आननं कोपपदं कः ककार उपपदं यस्य तदा काननं स्यादेवेत्यर्थः ।।८।। ॥७॥ Jain Education Intern For Personal & Private Use Only W w w.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40