Book Title: Shringar Vairagya Tarangini
Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, 
Publisher: Smrutimandir Prakashan

View full book text
Previous | Next

Page 7
________________ श्री शृङ्गार वैराग्य तरंगिणी IR|| स्वस्य कुशल काना युक्तमेव । दूरं विनितोऽपि मुक्तिनगरप्रस्मस्य दर्शनादेव गमने। दवामिधूमलहरीलावण्णलीलाजुषः' । धर्म एव आरामो वनं तत्र यो दवानिर्दावानलः तस्य या धूमलहरी धूमश्रेणिः तस्या यल्ला-वण्यं श्यामत्वं तस्य लीलां जुषन्ते सेवन्ते इति लीलाजुषः तान् ॥जुषी प्रीतिसेवनयोर्धातुः ।। दवाग्निधूमपंक्तिसदृशानित्यर्थः ।। अथ वैराग्यरसेन शृङ्गारं दूषयति ।। रे मनुष्य यदि त्वं आत्मनः स्वस्य कुशलं कल्याणं वाञ्छसि तदा अमून् वालान् व्यालान् सन्मित्वा कृष्णवर्णत्वाल्लंबायमानत्वाच्च सर्पसादृश्यं वालानां युक्तमेव । दूरं विमुञ्च दूरतस्त्यज इत्यर्थः ।। सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूरं पलायस्वेत्यर्थः ।। किंभूतान् वालान् ?।। दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमान् ।। मुक्तिरेव नगरं तत्र यत् प्रस्थानं गमनं तत्र विघ्नाय विघ्नं कर्तुं क्षमाः समर्थास्तान् ।। सर्पस्य दर्शनादेव गमने विघ्नसमुत्पत्तिरिति शकुनशास्त्रे प्रसिद्धं ।। तन्वंग्या यमितान्वालान् व्यालान् जानीहि ।। तथाहि श्लेषार्थोऽयं ।। यकारं इताः प्राप्ताः संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालानां व्यालत्वं ।।१।। (शार्दूलविक्रीडितम्) ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा,भ्रंशांभोदसहोदरास्तव सखे ! चेतश्चमत्कारिणः ।। क्लेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे,!चेत कष्टपरंपरापरिचितः शोच्यां दशामेष्यसि IR|| IRI Jain Education Inter For Personal & Private Use Only mwww.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40