Book Title: Shringar Vairagya Tarangini Author(s): Somprabhsuri, Nandlal Shraddh, Samyagdarshanvijay, Publisher: Smrutimandir Prakashan View full book textPage 8
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥३॥ हे सखे सरोरुहदृशां सरोरुहाणि कमलानीव दृशो नेत्राणि यासां ताः सरोरुहदृशस्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशाः तव चेतश्चमत्कारिणः चित्तप्रसत्तिकारिणः वर्तन्ते इति शेषः ।। किंभूताः केशाः? ।। चारित्रचन्द्रप्रभादंशांभोदसहोदराः । चारित्रमेव चंद्रप्रभा ज्योत्स्ना तस्या भ्रंशे नाशने अंभोदो मेघस्तस्य सहोदराः सदृक्षाः ।। केशानां श्यामत्वादंभोद- सदृशत्वं ।। तान् केशान् मूर्तिमतश्चक्षुरिंद्रियगम्यान् ।। क्लेशान नियतं निश्चयेन अवगम्य बुद्ध्वा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः ।। नोचेदिति ।। यदि न त्यजसि तदा त्वं शोच्या शोचनीयां दशामवस्थामेष्यसि प्राप्स्यसि ।। किंभूतस्त्वं?|| कष्टपरंपरापरिचितः कष्टानां या परंपरा श्रेणिः तया परिचितः युक्तः ।। स्त्रीणां केशान् क्लेशान् ज्ञात्वा त्यजेत्यर्थः ।। केशाः क्लेशाः कथं स्युरिति प्रश्ने । लसिताः लेन लकारेण सिता बद्धाः केशाः क्लेशा भवंतीत्यर्थ ।।२।। (वसंततिलका) ये शुद्धबोधशशिखंडनराहुचण्डाश्चित्तं हरन्ति तव वक्रकचाः कृशांग्याः ॥ ते निश्चितं सुकृतमय॑विवेकदेहनिर्दारणे ननु नवक्रकचाः स्फुरन्ति ॥३॥ हे पुमन् ! कृशांग्याः स्त्रियाः कृशं सूक्ष्म अंग यस्याः सा तस्याः ये वक्रकचाः वक्रकेशास्तव चित्तं हरन्ति ।। तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः ।। कथंभूताः वक्रकचाः ? ॥शुद्धबोध शशिखण्डनराहुचण्डाः । शुद्धबोधो निर्मलज्ञानं स एव शशी तस्य खण्डनेऽर्थात्कवलने राहुरिव चंडाः क्रूराः शुद्धबोध० ।। फलितार्थस्तु राहुर्यथा ॥३॥ lain Education inter For Personal & Private Use Only || www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40