________________
प्रथमो मुफकः वातादिप्रकृतिर्धातुर्धातुः शैलोद्भवः स्मृतः ।। क्रियाभावः स्मृतो धातुर्धातुहरसादिकः ॥ ३८ कॉण्डो बाणस्तुला काण्डः काण्डः संपाते इष्यते । काण्डः कालो बलं काण्डं काण्डं मूलं तरोरपि॥ ३९ सुधा प्रासादभाग्द्रव्यं सुधा विद्युत् सुधामृतम् । सुधेह भोजनं ज्ञेयं सुधा धात्री सुधा स्नुही ॥ ४० वेला कालविशेषः स्यात् वेला सिन्धुजलोद्धतिः। वेला सेवागुलिच्छेदो वेला द्रोण्यान्तरोवनिः ॥ ४१ उत्सवे च प्रकोष्ठे च मुहूर्ते नियमे तथा। क्षणशब्दो व्यवस्थायां समयेऽपि" निगद्यते ॥ ४२ भ्रूणो भीरुर्विजो भ्रूणो भ्रूणो गर्भाशयाश्रयः । भूणोऽन्त्यजः शिशुभ्रूणो भ्रूणो विकल उच्यते ॥ ४३ श्रेष्ठं इन्द्र इति ख्यातो देवराडिन्द्र उच्यते। शब्दादिविषयाः पञ्च प्रसिद्धा इन्द्रसंज्ञया ।। ४४ अहिदैत्यविशेषः स्यात् सूर्योऽहिरहिरवंगः। भुजंगोऽहि[:] समाख्यातः सिंहिकासूनुरप्यहिः॥ ४५ व्यालोऽहिः श्वापदो व्यालो व्याला स्याद्व्याकुल करी। प्रमादवान् नरो व्यालो "सिंहो व्याल उदाहृतः ॥ ४६ पयस्विन्यर्जुनी धेनुर्धेनुः कुञ्जरकामिनी। असिपुत्री स्मृती धेनुर्धेनुर्वृत्तिः शुभंकरी ॥ . ४७ धम्मों वृषो वृषः श्रेष्ठो वृषो गौमूषिको" वृषः।
वृषो बलं वृषः कामो वृषलो वृष उच्यते ॥ 9 B gives this line after the next one. २B. C.सै शैलोपलोद्भवः । B. देहे र.. x C gives this verse after the next one. ५ B. C संघात. ६ B. बुध्न तराणि च। C. प्रसेव प्रभवे द्रव्यो(व्यं) ८C. सुधैव ९ C. नतिः । १. B. वनी। C. "न्तरे ध्वनिः । , ११C. उत्सेधे. १२ C. ये च. १३ A. 'श्रयाशयः ।। १४ B gives this line after the next one. १५ A. जेन्द्र १६ C. यान्ते च......शक्रपाः । १. B. सूर्योरहि (१)अहिध्वजः । १८ A, प्रनाद'; C. प्रासाद १९ A. ग्यालो बाल. २० B. मता. २१ षको