________________
प्रथमो मुक्तकः जातिः स्यात् सहजोख्यानं मालती जातिरुच्यते । गोत्रादि जन्म जातिश्च जाति चुल्लीति कथ्यते ॥ ८० गोविषाणं फैणो ज्ञेयो भुजंगमणः फणः। फणा जटा फणा कृष्णा फणा मन्थानकुण्डली ॥ ८१ तिलको वृक्षभेदः स्यात् तिलको बिन्दुचित्रकम् । तिलकं क्लोमसंझं स्यात् प्रधानं तिलकं मतम् ॥ ८२ गन्धर्वो देवजातिः स्यात् गन्धर्वः स्यात् तुरंगमः। गन्धर्वश्च स्मृतो गाता गन्धर्वो मृगपुंगवः॥ शृङ्गं प्रधानमिच्छन्ति शृङ्गं च शिखरं विदुः । शृङ्गं विषाणमित्याहुः शब्दकोशविचक्षण[T]: ॥ ८४ सारंगः कुअरः ख्यातः सारंगश्चातको मतः। सारंगः पर्वतो ज्ञेयः सारंगो हरिणः स्मृतः ॥ करणं कारणं विद्यात् करणानीन्द्रियाणि च । करणो जातिभेदश्च क्षेत्रं करणमिष्यते ॥ पुण्डरीकः स्मृतो व्याघ्रः पुण्डरीका कमण्डलुः । पुण्डरीकः सितो वर्णः पुण्डरीकं सरोरुहम् ॥ फैमलं कमलं प्रोक्तं कमलं चन्द्रमा भवेत् । कमलं क्रमयुग्मं च कमलं मस्तकं विदुः ।। कमलं जलमाख्यातं कमलो हरिणः स्मृतः। . कमलो जलदः प्रोक्तः कमलं मुकुटं विदुः॥ ८९ अपत्येऽय पृथिव्यादौ कालेऽतीते च राक्षसे ।
"प्रेते माणिनि कीनाशे भूतशब्दं मचक्षते ॥ ९० C. 'जज्ञानं. A. धोणीति ; C.(चुलीच. ३ B. फणा लेया. ४ B. 'फणा फणा । ५ A. तिलकं. C. बोऽपि.
A. गीतो. .C interchanges a and b, giving 'तको ज्ञातः and 'करो मतः । ९ Comits this verse. 1. B interchanges b and d. ११ B. गं. १२ A. वृक्ष १३ B C omit this verse. १४ BComit this verse; A gives it in the margin. १५ A. C. अपम्ये ; B. औपम्ये.. १६ A. प्राप्त. १७ B. प्रकीर्तितम् ।
८८.