Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
शब्दरत्नप्रदीपः दौर्मनस्यं घृणा प्रोक्ता घृणा च करुणा मता। मङ्गः पलायनं वीचिर्भङ्गो भाश्च भञ्जनम् ॥ ७५ तीक्ष्णं तीनं समाख्यातं तीक्ष्णं लोहमुशन्ति च । मार्गणो याचको ज्ञेयो मार्गणो बाण उच्यते ॥ ७६ भृङ्गः शिलीमुखः ख्यातो नाराचोऽपि शिलीमुखः । भूशुण्डी मूकरः प्रोक्तो भूशुण्डी च कृषीवलः ॥ ७७ मृणालं बिसिनीमूलं मृणालं च जटोपली। काव्यास्तु पितरो ज्ञेयाः काव्यं ग्रन्थनिबन्धनम् ।। ७८ इस्वदीर्घप्लुते ध्वानः कृतपित्तव्यथास्वपि । रुक्मं हेम विजानीयाद् रुक्मं रजतमुच्यते ॥ उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधिः।। वामुरा वसती ज्ञेया वाँसुरा वलभी मता ॥ रजतं कलधौतं स्यात् कलधौतं च काश्चनम् । वर्णः कृष्णोऽच्युतः कृष्णः प्रोक्ता कृष्णा च पिप्पली ॥८१ समवाये यमे देवे संयद्वर इति श्रुतिः । शर्वरश्चन्द्रमा ज्ञेयः शर्वरः शवरो मतः ॥ ८२ महिला रमणी ज्ञेया रमणी वेदिका मता। प्रधानं प्रकृतिः सांख्ये प्रधानं विदुरुत्तमम् ।। वक्त्रमप्यरविन्दं स्यादरविन्दं सरोरुहम् ।। शुगालो जम्बुको भीरुः शृगालो वरुणोऽपि च ॥ ८४ त्रिदशा मरुतः प्रोक्ता मरुतोऽपि समीरणः। मायाशब्दो बुधैरिष्टः स्थलसत्त्वविशेषयोः॥ ८५ कुण्डलं मण्डलं ज्ञेयं कुण्डलं कर्णभूषणम् । प्रतिबन्धः कुलाधारः प्रतिबन्धः खलक्रिया ॥ ८६ किषिर्गोत्रविशेषः स्यात् "किषिः कालः "किषिः कपिः। कुशिौंपक इत्युक्तः कुँशिर्वैखानसो मुनिः ॥ ८७
B. नः। २ B वागुरा. B. वारुणी. ४ B. वाणुरा. - ५ B interchanges the two lines of this verse. . ..६ A. रमृतम्। - B. माला'.
A. सून्वद्यनविशेषतः (१) । ९-११ The reading is doubtful. कपि is denoted by कीश. १२ A. B. कृषि. १३ A. कृषि, B. किर्षि.
८३

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66