Book Title: Shabdaratna Pradip
Author(s): Hariprasad Shastri
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
*
शब्दरत्नप्रदीपः
नागो वृक्षविशेषः स्याद् नागौ वारणपन्नगौ । फुलं संघः कुलं गोत्रं शरीरं कुलमुच्यते ॥ पूगीफलं ज्ञेयं तथा पूगं कदम्बकम् । ज्ञेयाः सुमनसो देवाः कुसुमानि च सज्जनाः ॥ कुसुमं पुष्पमित्याहुः स्त्रीरजश्च तदाख्यया । धवः पतिर्धवो भीरुर्वृक्षजातिर्धवो मतः ॥
३१
३२
३३
त्र्यम्बकस्ताम्रधातुः स्यात् त्र्यम्बकश्च त्रिलोचनः । सिफा सेफालिका प्रोक्ता सिफा शिखा सिफा जटा ॥ ३४ पुण्यं सुविहितं कर्म पवित्रं पुण्यमुच्यते ।
३५
ब्रह्म वैज्ञानमित्युक्तं ब्रह्मा पौनर्भवो मतः ॥ खो राशिः खलो नीचः खलः पिण्याक उच्यते । शाला श्लाघा शिला शाला शाला शाखा च वेश्मनः || ३६ माल्यो मान्यः स्थिरो माल्यो माला माल्यमुदाहृतम् । राढा देशविशेषः स्यात् शोभा राढाभिधीयते ॥ ३७ पलं मांसं पलं मानं पलो मूर्खः पला तुला । आलिः सहचरी ज्ञेया पङ्क्तिरालिः प्रकीर्त्तिता || दलमर्द्ध दलं पर्ण दलं हस्त्यादि साधनम् । आजिः स्यात् समभूभागः संग्रामोऽप्याजिरुच्यते ॥ ३९ प्रतिज्ञा संगरो ज्ञेयः संग्रामः संगरो मतः । --उलूकः पुरुहूतः स्यात् पुरुहूतः पुरंदरः ॥
३८
अमृतं वारि विज्ञेयं देवभोज्यं तथामृतम् । कुन्त्या भूमिः समाख्याता कुन्त्या कुन्तकदम्बकम् ॥ ४१ अन्तकेऽगरे कुन्ते मृत्युः स्यान्मरणेऽपि च । संपा विद्युत् पतिः संपा संपा शङ्खध्वनिर्मतः ॥ ४२
C gives this verse after st. 47.
८. C. कुंद: कबः स्यात् .
SA भूमि.
४०
A. सुमनो (नौ ?) कुसुमसज्जनौ ॥ B. सुमनः कुसुमसंज्ञिताः (तम्) | २ C. महेश्वरः . ३. B. C. ज्ञेया.
५ C. मिष्यते ।
६ B. पाल्यं.
YBComit this line.
१० C. थाजिरे..

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66