Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Pandit Thakurprasad Sharma
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ कः पुनः क्रमः ? किं वा यौगपद्यम् ? इति चेदुच्यते । यदा तावदस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदाऽस्त्यादिरूपैकशब्दस्य नास्तित्वाद्यनेकधर्मबोधने शक्त्यभावात्क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाप्यस्त्यादिशब्देनास्तित्वादिरूपैकधर्मबोधनमुखेन तदात्मकतामापन्नस्य सकलधर्मखरूपस्य प्रतिपादनसम्भवाद्योगपद्यम् ॥ पूर्व प्रसङ्गमें क्रम तथा यौगपद्यकी चर्चा कर आये हैं उनमें क्रम क्या पदार्थ है, और यौगपद्य भी क्या वस्तु है ? ऐसा प्रश्न करो तो उसका उत्तर कहते हैं-जब अस्तित्व तथा नास्तित्व आदि धर्मोंकी देश काल आदिसे भेदसे कथनकी इच्छा है तब अस्तित्व आदिरूप एक ही शब्दकी नास्तित्व आदिरूप अनेक धर्मों के बोधन करनेमें शक्ति न होनेसे नियत पूर्वापर भाव वा अनुक्रमसे जो निरूपण है उसको 'क्रम' कहते हैं । और जब उन्हीं अस्तित्व आदि धर्मोकी काल आदि द्वारा अभेदसे वृत्तिं कही जाती है तब एक अस्तित्व आदि शब्दसे भी अस्तित्वआदिरूप एक धर्मके बोधनके उपलक्षणसे उस वस्तु रूपताको प्राप्त जितने धर्म हैं उनका प्रतिपादन एक समयमें सम्भव है इस प्रकारसे जो वस्तुके स्वरूपका निरूपण है उसको योगपर्ये कहते हैं। के पुनः कालादयः ? इति चेदुच्यते । कालः, आत्मरूपम् , अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति । तत्र स्यादस्त्येव घट इत्यत्र यादृशकालावच्छेदेन घटादावस्तित्वं वर्तते-तत्कालावच्छेदेन शेषानन्तधर्मा अपि घटे वर्तन्त इति तेषामेककालावच्छि काधिकरणनिरूपितवृत्तित्वं कालेनाभेदवृत्तिः । यदेवास्तित्वस्य घटगुणत्वं स्वरूपं-तदेवान्यानन्तगुणानामपि स्वरूपमित्येकस्वरूपत्वमात्मरूपेणाभेदवृत्तिः । य एव च घटद्रव्यरूपोऽर्थोस्तित्वस्याधारस्स एवान्यधर्माणामप्याधार इत्येकाधारवृत्तित्वमर्थेनाभेदवृत्तिः । य एव चाविष्वग्भावः कथंचित्तादात्म्यलक्षणोऽस्तित्वस्य सम्बन्धस्स एवानन्तधर्माणामपीत्येकसम्बन्धप्रतियोगित्वं सम्बन्धेनाभेदवृत्तिः । य एव चोपकारोऽस्तित्वस्य स्वानुरक्तत्वकरणम् तच्च स्ववैशिष्टयसम्पादनं, यथा-नीलरक्तादिगुणानां नीलरक्ताद्युपरजनं नीलरक्तत्वादिगुणवैशिष्टयसम्पादनमेव, तदपि स्वप्नकारकर्मिविशेष्यकज्ञानजनकत्वपर्यवसन्नम् , अस्तित्वस्य स्वानुरक्तत्वकरणं हि अस्तित्वप्रकारकघटविशेष्यकज्ञानजनकत्वम् , तादृशोपकार एव नास्तित्वादिभिरशेषधमैः क्रियत इत्येककार्यजनकत्वमुपकारेणाभेदवृत्तिः । यद्देशावच्छेदेन घटादावस्तित्वं वर्तते-तद्देशावच्छेदेनैव घटे नास्तित्वादिधर्माः, न तु कण्ठावच्छेदेनास्तित्वंपृष्ठावच्छेदेन नास्तित्वमिति देशभेदः, इत्येकदेशावच्छिन्नवृत्तित्वं गुणिदेशेनाभेदवृत्तिः । य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गस्स एवापरधर्माणामपीत्येकसंसर्गप्रतियोगित्वं संसर्गेणाभेदवृत्तिः ॥ ननु-सम्बन्धसंसर्गयोः को विशेषः ? इति चेदुच्यते । कथंचित्तादात्म्यलक्षणे सम्बन्धेऽभेदप्रधानं भेदो गौणः, संसर्गे तु भेदः प्रधानमभेदो गौणः, इति विशेषः । कथंचितादात्म्यं हि कथंचिद्भेदाभेदोभयरूपम् । तत्र भेदविशिष्टाभेदस्सबन्ध इत्युच्यते । अभेदविशि १ एक कालमें. २ वस्तुखरूपकी स्थिति. ३ मिष, ४ एक कालीनत्व वा समान कालिकता. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98