Book Title: Sanskrit Kavyanand Part 01 Author(s): Nanchandra Muni Publisher: Ajramar Jain Vidyashala View full book textPage 9
________________ संस्कृत काव्यानंद भाग १ लो. प्राप्तेतु षोडशे वर्षे पुत्रे मित्रवदाचरेत् कर्तव्यमेव कर्तव्यं प्राणैः कंठगतैरपि । अकर्तव्य नं कर्तव्यं प्राणैः कंठगतैरपि . अनर्थ्यमपि माणिक्यं हेमाश्रयमपेक्षते निराश्रया न शोभन्ते पण्डितावनितालताः लालने बहवो दोषास्ताडने बहवो गुणाः तस्मात्पुत्रंच शिष्यंच ताडयेन्नतु लालयेत् वक्तारः किं करिष्यन्ति श्रोता यत्र न विद्यते नग्नक्षपणके देशे रजकः किं करिष्यति कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् को विदेशः सुविद्यानां कः परः प्रियवादिनाम् .. असन्तुष्टा द्विजा नष्टाः सन्तुष्टाचश्च महीभुजः सलज्जा गणिका नष्टा निर्लज्जा च कुलांगनाः प्रथमे नाजिता विद्या द्वितीये नाजितं धनम् तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति शोकस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूढमाविशन्ति न पंडितम् .. ६२ शत्रुर्दहति संयोगे वियोगे मित्रमप्यहो उभयोर्दुःखदायित्वात् को भेदः शत्रुमित्रयोःPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50