SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ संस्कृत काव्यानंद भाग १ लो. प्राप्तेतु षोडशे वर्षे पुत्रे मित्रवदाचरेत् कर्तव्यमेव कर्तव्यं प्राणैः कंठगतैरपि । अकर्तव्य नं कर्तव्यं प्राणैः कंठगतैरपि . अनर्थ्यमपि माणिक्यं हेमाश्रयमपेक्षते निराश्रया न शोभन्ते पण्डितावनितालताः लालने बहवो दोषास्ताडने बहवो गुणाः तस्मात्पुत्रंच शिष्यंच ताडयेन्नतु लालयेत् वक्तारः किं करिष्यन्ति श्रोता यत्र न विद्यते नग्नक्षपणके देशे रजकः किं करिष्यति कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् को विदेशः सुविद्यानां कः परः प्रियवादिनाम् .. असन्तुष्टा द्विजा नष्टाः सन्तुष्टाचश्च महीभुजः सलज्जा गणिका नष्टा निर्लज्जा च कुलांगनाः प्रथमे नाजिता विद्या द्वितीये नाजितं धनम् तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति शोकस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूढमाविशन्ति न पंडितम् .. ६२ शत्रुर्दहति संयोगे वियोगे मित्रमप्यहो उभयोर्दुःखदायित्वात् को भेदः शत्रुमित्रयोः
SR No.002466
Book TitleSanskrit Kavyanand Part 01
Original Sutra AuthorN/A
AuthorNanchandra Muni
PublisherAjramar Jain Vidyashala
Publication Year
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy