Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
Catalog link: https://jainqq.org/explore/002466/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सूचना- आ पुस्तक शुद्धिपत्र प्रमाणे// प्रथम सुधारीने संशो... शुद्धिपत्रस् पृष्ट श्लोक अशुद्ध शुद्ध पृष्ट श्लोक ३ १९ प्युत्तमां प्युत्तमा ३ १९ विद्यां विद्या ३ २५ नंत् ३ २५ त्यजे ४ ३४ प्रति ४ ३५ क क्व ४ ३५ रुष्टा रुष्टाः ५ ३७ श्वमिः श्वभिः ५ ४१ थिनः र्थिनः व्यं न ७ ५५ व्य ७ ५५. नं ७ नं त्यजेत् पति ६० तुष्टाचश्च तुष्टाच C ६० ज्जा च ज्जाश्व १०. ८७ पितर्गुणैः पितैर्गुणैः ११ १०१ नुनु ननु १२ १०२ मीहसम् मीदृशम् १२ १०८ दृद्ध वृद्धा: १२ ११० कश्चनः कवन १५ १३२ उदया उद्घा १५ १३४ जन ज्जन गुर्वी १५ १३४ गुर्वी १८ १५९ उपाजि उपार्जि १८ १६१ तत्र तत्रैव FM. १९१६९ मूषिको मूषको १९ १७० लाके लोके २० १८१ मण्डिता मण्डिता २१ १९५ भवती भवति २२२०१ गोति सगणोति Page #2 -------------------------------------------------------------------------- ________________ पृष्ट, श्लोक. अशुद्ध. शुद्ध. पृष्ट. लाक. अशुद्ध शुद्ध. २३ २०९ पायते पीयते ४३ ३२८ बगमा वगमो २५ २२७ कार्थ कोर्थ ४४ ३३९ दुर्लभं दुर्लभं २७ २४७ नदि नदी ४४ ३४३ त्रिवर्ग त्रिवर्ग ३० २६३ नृपतिवि नृपतिर्वि ४४ ३४३ धर्म धर्म ३० २६४ अक्षश्वा अक्षैश्वा ४५ ३४६ विक्रीयं विक्रीय ३३ २७६ कीति कीति | ४५ ३४९ सप्ताजि सप्तार्चि ३४ २८० यावच्चै यावच्चे ४६ ३५३ करुते कुरुते ३४ ३८३ साहायश्च सहायाश्च ४६ ३५५ क्षाणात् क्षणात् ३५ २८५ कचि क्वचि | ४७ ३५८ नोजितं नार्जितम् ३६ २९१ पुरुषष्य पुरुषस्य ४७ ३६० कल्पतरु कल्पतरु ३८ २९९ स्वादुच स्वादुचे ४८ ३६५ रायातः शयाती ३८ २९९ प्रकृतिवि प्रकृतिर्वि ४८ ३६५ काल कालः ३८ २९९ सञ्जना सजना ४८ ३६८ वितं वित्तं ४२ ३२१ ।जतानि जितानि ४८ ३७१ दुःख द् दुःख Page #3 -------------------------------------------------------------------------- ________________ श्री जिनेश्वराय नमः संस्कृत काव्यानंद. भाग १ ला. " ओंकारं बिंदु संयुक्तं नित्यं ध्यायन्ति योगिनः कामदं मोक्षदं चैव, ओंकाराय नमोनमः प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात्तदेव वक्तव्यं वचने का दरिद्रता जीवन्तोऽपि मृताः पंच व्यासेन परिकीर्तिताः दरिद्रा व्याधितो मूर्खः प्रवासी नित्यसेवकः उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् अमंत्रमक्षरं नास्ति नास्ति मूलमनैषधम् अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः जलबिन्दुनिपातेन क्रमशः पूर्यते घटः स हेतुः सर्वविद्यानां धर्मस्यच धनस्यच १ २ ३ ५ ६ A) Page #4 -------------------------------------------------------------------------- ________________ २ संस्कृत काव्यानंद भाग १ लो. को न याति वशं लोके मुखे पिण्डेन पूरितः मृदंगो मुखलेपेन करोति मधुरध्वनिम्. सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ब्राह्मणोऽग्नियमो राजा पयोधिरुदरं गृहम्. परोपि हितकृद्धन्धुः बन्धुरप्यहितः परः अहितो देहजो व्याधिः हितमारण्यमौषधम् दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेजलम् . शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया श्रियोऽनुकूलदानेन लजया च कुलांगनाः अश्व नैव गजं नैव व्याघ्र नैवच नैवच अजापुत्रं बलिं दद्यात् देवो दुबलघातक.. भवन्ति नरकाः पापात् पापं दारिद्यसंभवम् द्रारिद्यमप्रदानेन तस्मादानपरो भवेत्। वनानि दहतो वह्नः सखा भवति मारुतः स एक दोपनाशाय कृशे कस्यास्ति सौहृदम् निःसारस्य पदार्थस्य प्रायेणाडंबरो महान् नहि तादृग् ध्वनिः स्वर्णे यादक कांस्ये प्रजायते १५ जानीयात् संगरे भृत्यान् बान्धवान व्यसनागमे Page #5 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. आपत्काले तु मित्राणि भार्या च विभवक्षये पिपीलिकार्जितं धान्यं मक्षिकासंचितं मधु लुब्धेनोपार्जितं द्रव्यं समूलं च विनश्यति मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च असतां संप्रयोगेन पंडितोप्यवसीदति. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् नीचादप्युत्तमां विद्या स्त्रीरत्नं दुष्कुलादपि लुब्धमर्थेन गृह्णीयात् क्रुद्धमंजलिकर्मणा मूर्ख छंदानुरोधेन तत्वार्थेन च पण्डितम् वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः आगतं समयं वीक्ष्य भिन्द्यादघटमिवाश्मना सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डितः अर्धेन कुरुते कार्य सर्वनाशो न जायते उत्तमा आत्मनाख्याताः पितुः ख्याताश्च मध्यमाः अधमा मातुलाख्याताः श्वशुरावाधमाधमाः । न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते चलत्येकेन पादेन तिष्ठत्यन्येन पंडितः । नापरीक्ष्य परं स्थानं पूर्वमायतनं त्यजे . २५ Page #6 -------------------------------------------------------------------------- ________________ ४ संस्कृत काव्यानंद भाग १ लो. न कश्चिदपि जानाति किं कस्य श्वो भविष्यति अतः श्वःकरणीयानि कुर्यादद्यैव बुद्धिमान २६ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च बंचनं चापमानं च मतिमान प्रकाशयेत् अवृत्तिकं त्यजेद्देशं वृति सेोपद्रवां त्यजेत् । त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेन् त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् चिन्तनीया हि विपदामादावेव प्रतिक्रियाः न कूपखननं युक्तं प्रदीप्ते वहिना गृहे पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ३१ न द्विषन्ति न याचन्ते परनिन्दां न कुर्वते अनाहूता न चायान्ति तेनाश्मानेोऽपि देवताः उपभोक्तं न जानाति श्रियं प्राप्यापि मानवः आकंठं जलमग्नोऽपि श्वा हि लेट्येव जिह्वया । आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः अधना दातुमिच्छन्ति वृद्धा नारी प्रतिव्रता क्वचिद्रुष्टाः कचित्तुष्टा स्तुष्टा रुष्टा क्षणेक्षणे Page #7 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. अव्यवस्थितचित्तानां प्रसादोऽपि भयंकर : निर्विषेणापि सर्पेण कर्तव्या महती फणा विषमस्तु नचाप्यस्तु खटाटोपो भयंकरः एक एव पदार्थस्तु त्रिधा भवति वीक्षितः कामिनी कुणपं मांस कामिभियेोगिभिः श्वमिः शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधो नहि सर्वत्र चन्दनं न वने वने यश्व मूढतमो लोके यश्च बुद्धेः परं गतः तावुभौ सुखमेधेते क्लिश्यत्यन्तरिता जनः साक्षरा विपरीताद्राक्षसा एव केवलम् सरसो विपरीतश्चेत् सरसत्वं न मुंचति सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ४१ माता यदि विषं दद्यात् विक्रीणाति पिता सुतं राजा हरति सर्वस्वं तत्र का परिवेदना धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते अजागलस्तनस्येव तस्य जन्म निरर्थकम् मातृवत्परदारेषु परद्रव्येषु लेोष्ठवत् आत्मवत्सर्वभूतेषु यः पश्यति स पश्यति ३५ ३६ ३७ ३८ ३९ ४० ४२ ४३ ४४ Page #8 -------------------------------------------------------------------------- ________________ ६ संस्कृत काव्यानंद भाग १ लो. दिवा पश्यति नेोलूकः काको नक्त न पश्यति अपूर्वः कोऽपि कामान्धो दिवा नक्तं न पश्यति यौवनं धनसंपत्तिः प्रभुत्वर्माववेकिता एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः जाता जाता नवाचारा भिन्ना वाणी मुखे मुखे मर्कटस्य सुरापानं तत्र वृश्चिकदंशनम् तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति पुस्तकस्था तु या विद्या परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषुच व्याधितस्यैौषधं मित्रं धर्मो मित्र मृतस्यच अगाधजलसंचारी न गर्व याति रोहितः अंगुष्ठोदकमात्रेण शफरी फर्फरायते नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि कुशकंटकविद्धोपि प्राप्तकाला न जीवति कालयेत्पंच वर्षाणि दश वर्षाणि ताडयेत् ४५. ४६ ४७ ४८ ४९ ५० ५१ ५२ ५३ Page #9 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. प्राप्तेतु षोडशे वर्षे पुत्रे मित्रवदाचरेत् कर्तव्यमेव कर्तव्यं प्राणैः कंठगतैरपि । अकर्तव्य नं कर्तव्यं प्राणैः कंठगतैरपि . अनर्थ्यमपि माणिक्यं हेमाश्रयमपेक्षते निराश्रया न शोभन्ते पण्डितावनितालताः लालने बहवो दोषास्ताडने बहवो गुणाः तस्मात्पुत्रंच शिष्यंच ताडयेन्नतु लालयेत् वक्तारः किं करिष्यन्ति श्रोता यत्र न विद्यते नग्नक्षपणके देशे रजकः किं करिष्यति कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् को विदेशः सुविद्यानां कः परः प्रियवादिनाम् .. असन्तुष्टा द्विजा नष्टाः सन्तुष्टाचश्च महीभुजः सलज्जा गणिका नष्टा निर्लज्जा च कुलांगनाः प्रथमे नाजिता विद्या द्वितीये नाजितं धनम् तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति शोकस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूढमाविशन्ति न पंडितम् .. ६२ शत्रुर्दहति संयोगे वियोगे मित्रमप्यहो उभयोर्दुःखदायित्वात् को भेदः शत्रुमित्रयोः Page #10 -------------------------------------------------------------------------- ________________ . ६४ संस्कृत काव्यानंद भाग १ लो. काव्यशास्त्रविनोदेन कालो गच्छति धीमतां व्यसनेन च मूर्खाणां निद्रया कलहेन वा हंसः श्वेतो बका श्वेतः को भेदो बकहंसयोः नीरक्षीरपरीक्षायां हंसा हंसा बको बकः । येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः मयूराश्चित्रिता येन स ते वृति विधास्यति यूयं वयं वयं यूयमित्यासीन्मतिरावयाः । किं जातमधुना येन यूयं यूयं वयं वयम् यद्यत्परवशं कर्म तत्तयत्नेन वर्जयेत् । यद्यदात्मवशं तु स्थात् तत्तत्सेवेत यनतः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् अपराधिषु सत्वेषु नृपाणां सैव दूषणम् सेवितव्यो महान् वृक्षः फलच्छायासमन्वितः दैवाद्यदि फलं नास्ति छाया केन निवार्यते मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः त्रयस्ते नरकं यान्ति यावश्चन्द्रदिवाकरौ जनिता चोपनेता च यश्च विद्यां प्रयच्छति Page #11 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. अन्नदाता भयत्राता पंचैते पितरः स्मृताः नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषां हृदिस्था भगवान् मंगलायतनं हरिः उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः नहि सिंहस्य सुप्तस्य प्रविशन्ति मुखे गजाः उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः षडेते यत्र वर्तन्ते तत्र दैवं सहायकृत आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् यथा हो केन चक्रेण न रथस्य गतिर्भवेतू एवं पुरुषकारेण विना दैवं न सिध्यति योजनानां सहस्रन्तु शनैर्गच्छेत्पिपीलिका अगच्छन् वैनतेयोपि पदमेकं न गच्छति गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सतां केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः Page #12 -------------------------------------------------------------------------- ________________ ८६ १० संस्कृत काव्यानंद भाग १ लो. गुणवज्जनसंसर्गाद्याति स्वल्पोऽपि गौरवम् . पुष्पमालानुषंगेण सूत्रं शिरसि धार्यते । गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न वै जनाः यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् नहि कस्तूरिकामोदः शपथेन निवार्यते गुणैौरवमायाति नोचैरासनमास्थितः प्रासादशिखरारूढः काकः किं गरुडायते परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितर्गुणैः महानुभावसंसर्गः कस्य नोन्नतिकारकः रथ्याम्बु जाह्नवीसंगात् त्रिदशैरपि वन्यते हीयते हि मतिस्तात हीनःसह समागमात् समैश्च समतामेति विशिष्टैश्च विशिष्टताम् परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् धन्यास्ते पशवो येषां चर्माप्युपकरोति हि. आत्मार्थ जीवलोकेस्मिन् को न जीवति मानवः परं परोपकारार्थ यो जीवति स जीवति उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् Page #13 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ ला. प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः संतोषामृत तृप्तानां यत्सुखं शान्तचेतसाम् कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् अकृत्वा परसंतापं अगत्वा खलमंदिरम् अक्लेशयित्वा चात्मानं यदल्पमपि तद्बहु सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं उपानद्गूढपादस्य ननु चर्मातेव भूः वलिभिर्मुखमाक्रान्तं पलितैरंकितं शिरः गात्राणि शिथिलायन्ते तृष्णैका तरुणायते आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत् तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् येनाशाः पृष्ठतः कृत्वा नैराश्यमवलंबितम्र अनुकूले विद्या देयं यतः पूरयिता हरिः प्रतिकूले विद्या देयं यतः सर्वं हरिष्यति यद्ददासि विशिष्टेभ्यो यच्चानासि दिने दिने तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि लुब्धो न विसृजत्यर्थे नरो दारिद्र्यशंकया दातापि विसृजत्यर्थं तयैव नुनु शंकया ११ ९२ ९३. ९४ ड ६६ ९७ ९८ ९९ १०० १०१. Page #14 -------------------------------------------------------------------------- ________________ १२ संस्कृत काव्यानंद भाग १ लो. भिक्षुका नैव भिक्षते बोधयन्ति गृहे गृहे .. दीयतां दीयतां नित्यमदातुः फलमीहसम् शतेषु जायते शूरः सहस्रेषु च पंडितः वक्ता दशसहस्रेषु दाता भवति वा न वा १०३ वेपथुमलिनं वक्त्रं दीना वाक् गद्गदः स्वरः मरणे यानि चिह्नानि तानि चिह्नानि याचके १०४ तृणादपि लघुस्तूलः तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति १०५ काक आयते काकान् याचको न तु याचकान् काकयाचकयोर्मध्ये वरं काका न याचकः १०६ यस्यास्तस्य मित्राणि यस्थार्थास्तस्य बान्धवाः यस्यार्थाः स पुमाल्लोके यस्यार्थाः सहि पंडितः १०७ वयोवृद्धा स्तपोवृद्धा ये च वृद्धा बहुश्रुताः ते सर्वे धनवृद्धनां द्वारि तिष्ठन्ति किंकराः स्त्रीरूपं मोहकं पुंसा यून एव भवेत्क्षणम् कनकं स्त्रीबालवृद्ध षंढानामपि सर्वदा हे दारिद्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः पश्याम्यहं जगत्सर्व न मां पश्यति कश्चनः परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम् Page #15 -------------------------------------------------------------------------- ________________ ११३ ११४ संस्कृत काव्यानंद भाग १ लो. धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः यथा चित्तं तथा वाचा यथा वाचस्तथा क्रियाः चित्ते वाचि क्रियायांच साधूनामेकरुपता उपकारिषु यः साधुः साधुत्वे तस्य को गुणः अपकारिषु यः साधुः सःसाधुः सद्भिरुच्यते खलः सर्षपमात्राणि परच्छिद्राणि पश्यति आत्मना बिल्वमात्राणि पश्यन्नपि न पश्यति उपकारोऽपि नीचानामपकाराय जायते पयःपानं भुजंगानां केवलं विषवर्धनम् अलंकरोति हि जरा राजामात्यभिषग्यतीन् . विडंबयति पण्यस्त्री मल्लगायकसेवकान् यथा धेनुसहस्रेषु वत्सा विन्दति मातरम् तथा पूर्वकृतं कर्म कर्तारमनुगच्छति। तादृशी जायते बुद्धिर्व्यवसायोपि तादृशः सहायास्तादृशाश्चैव यादृशी भवितव्यता अवश्यंभाविभावानां प्रतीकारो भवेद्यदि तदा दुःखैन लिप्येरन् नलरामयुधिष्ठिराः नागुणी गुणिनं वेत्ति गुणी मुणिषु मत्सरी गुणीच गुणरागीच विरलः सरलो जनः । ११५ ११६ ११८ ११९ १२० Page #16 -------------------------------------------------------------------------- ________________ १२१ १२४ १४ संस्कृत काव्यानंद भाग १ लो. उदये सविता रक्तो रक्तवास्तमये तथा संपत्तौ च विपत्तौ च महतामेकरूपता आरभन्तेल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च . महारंभाः कृतधियः तिष्ठन्ति च निराकुलाः एकेनापि सुपुत्रेण सिंही स्वपिति निर्भया सहैव दशभिः पुत्रै भीरं वहति गर्दभी। अजातमृतमूर्खाणां वरमाधै। न चान्तिमः . — सकृदुःखकरावाद्यावन्तिमस्तुपदे पदे .. सुलभाः पुरुषा राजन् सततं प्रियवादिनः अभियस्य च पथ्यस्य वक्ता श्राता च दुर्लभः राज्ञि धमिणि धर्मिष्ठाः पापे पापाः समे समाः लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजा यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते कुठारैर्दण्ड निर्मुक्तैर्भिद्यन्ते तरवः कथम् सर्वे यत्र'विनेतारः सर्वे पण्डितमानिनः सर्वे महत्वमिच्छन्ति कुलं तदवसीदति कृतार्थः स्वामिनं द्वेष्टि कृतदारस्तु मातरम् जातापत्या पति द्वेष्टि गतरोगश्चिकित्सकम् अहो दुर्जनसंसर्गान्मानहानिः पदे पदे १२५ Page #17 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. पावको लोहसंगेन मुद्गरैरभिहन्यते को देशः कानि मित्राणि कः कालः का व्ययागमा काहं काच मे शक्ति रिति चिन्त्यं मुहुर्मुहुः उदघाटित नवद्वारे पंजरे विहगो ऽनिलः यत्तिष्ठति तदाश्वर्य प्रयाणे विस्मयः कुतः प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया तृप्ताः कामेन बाध्यन्ते प्राणिने। निशि निद्रया विद्वानेव विजानाति विद्वज्जनपरिश्रमम् नहि बन्ध्या विजानाति गुर्वी प्रसववेदनाम् यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति स एव प्रच्युतः स्थानात् शुनापि परिभूयते स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः इति संचिन्त्य मतिमान् स्वस्थानं न परित्यजेत् आदरेण यथा स्तौति धनवन्तं धनेच्छया तथा द्विश्वकर्तारं को न मुच्येत बन्धनात् स्वमस्तकसमारूढं मृत्युं पश्येज्जना यदि आहारोऽपि न रावेत, किमुतान्या विभूतयः - १५ १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ १३९ Page #18 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ ला. भीतं मुंचति किं यमः १६ मृत्योर्विभेषि किं मूढ, अजातं नैव गृह्णाति कुरु यत्नमजन्मनि अशनं मे वसनं मे जाया मे बन्धुवर्गो मे इति मे मे कुर्वाणं, कालको हन्ति पुरुषाजं अनेकसंशयेाच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः १४२ अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते अजागलस्तनस्येव तस्य जन्म निरर्थकम माता शत्रुः पिता वैरी येन बाला न पाठितः न शोभते सभामध्ये हंसमध्ये बको यथा रूपयौवनसंपन्ना विशालकुलसंभवाः विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः तावच्च शोभते मूर्खा यावत्किंचिन्न भाषते काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम तथा सत्संनिधानेन मूर्खो याति प्रवीणताम कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः १४० १४१ १४३ १४४ १४५ १४६ १४७ १४८ Page #19 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः अयं निजः परो वेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्र विप्लवे राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् मणिना भूषितः सर्पः किमसैौ न भयंकर : नारिकेलसमाकारा दृश्यन्ते हि मुहृज्जनाः अन्ये बदरिकाकारा बहिरेव मनोहराः घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् तस्माद्वतं च वह्निं च नैकत्र स्थापयेद्बुधः यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थाः स पुमांल्लोके यस्यार्थाः स हि पण्डितः १५७ संसारविषवृक्षस्य द्वे एव रसवत्फले १५६ काव्यामृतरसास्वादः संगमः सुजनैः सह १७ १४९ १५० १५१ १५२ १५३ १५४ १५५ १५८ Page #20 -------------------------------------------------------------------------- ________________ १५९ १८ संस्कृत काव्यानंद भाग १ लो. उपाजितानां वित्तानां त्याग एव हि रक्षणम् तडागोदरसंस्थानां परवाह इवाम्भसाम् राजा कुलवधूर्विमा मन्त्रिणश्च पयोधराः स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः १६० स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः तव निधनं यान्ति काका: कापुरुषा मृगाः सन्त एव सतां नित्यमापदुद्धरण क्षमाः गजानां पङ्कमग्नानां गजा एव धुरंधराः अम्भांसि जलजन्तूनां दुर्गे दुर्गनिवासिनाम् स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम् rasaः पश्यतः कस्य महिमा नोपचीयते उप परिपश्यन्तः सर्व एव दरिद्रति नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च नेत्रत्रविकारेण लक्ष्यतेऽन्तर्गतं मनः उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये पयः पानं भुजगानां केवलं विषवर्धनम् सर्व एव जनः शूरो ह्यनासादितविग्रहः .१६१ १६२ १६३ १६४ १६५ १६६ १६७ Page #21 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. अदृष्टपरसामर्थ्यः सदर्पः को भवेन्नहि नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा यथाखरश्चंदन भारवाही, भारस्यवेत्तानतु चंदनस्य एवंहिशास्त्राणि बहून्यधीत्य, चार्थेषु मूढाः खरवद्वहंति ९७० न दुर्जनः सज्जनता मुपैति, बहु प्रकारै रपि सेव्य मानः अत्यंत सिक्तः पयसाघृतेन, ननिंब वृक्षो मधुता मुपैति १७१ कृशोपिसिंहो नसमोगजेंद्रैः, सत्वं प्रधानंनतु मांस राशि: अनेकवृंदानि वनेगजानां, सिंहस्यनादेन मदंत्यजति १७२ यत्नेन पापानि समाचरंति, धर्म प्रसंगादपि नाचरंति आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषंपिति १७३ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ज्ञानलवदुर्विदग्धं, ब्रह्मापितं नरं न रञ्जयति येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः मृत्युला भुवि भारभूता, मनुष्यरूपेण मृगाचरन्ति १७५ दानं भोगो नाशस्तिस्रो गतयेो भवन्ति वित्तस्य यो न ददाति न भुङ्क्ते तस्य तृतीया गति र्भवति १७६ अकरुणत्वमकारण विग्रहः, परवने परयोषिति च स्पृहा स्वजनबन्धुजनेष्वसहिष्णुता, प्रकृतिसिद्धमिदं हि दुरात्मनाम्. १७४ १९ १६८ १६९ Page #22 -------------------------------------------------------------------------- ________________ २० संस्कृत काव्यानंद भाग १ लो. आरम्भगुवीं क्षयिणी क्रमेण, लघ्वी पुरा वृद्धिमती च पश्चात् दिनस्य पूर्वार्धपरार्धभिन्ना,छायेव मैत्री खलसज्जनानाम् १७८ विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः यशसि चाभिरुचिर्व्यसनं श्रुतौ,प्रकृतिसिद्धमिदं हि महात्मनाम् भवन्ति नम्रास्तरवः फलोद्गमै,नवाम्बुभिभूमिविलम्बिनोधनाः अनुद्धताःसत्पुरुषाःसमृद्धिभिः,स्वभाव एवैष परोपकारिणाम्. अप्रियवचनदरिद्रः, प्रियवचनाढयैः स्वदारपरितुष्टैः . परपरिवादनिवृत्तैः, कचित्कचिन्माण्डिता वसुधा १८१ अतिपरिचयादवज्ञा, संततगमनादनादरो भवति लोकः प्रयागवासी, कूपे स्नानं समाचरति १८२ अतिपरिचयादवज्ञा, इति यद्वाक्यं मृषैव तद्भाति अतिपरिचितेप्यनादौ, संसारेऽस्मिन् न जायतेऽवज्ञा १८३ साहित्यसंगीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः तृणं न खादन्नपि जीवमान, स्तद्भागधेयं परमं पशूनाम् १८४ देशाटनं पण्डितमित्रताच, वारांगनाराजसभाप्रवेशः अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पंच १८५ क्षते प्रहारा निपतन्त्यभीक्ष्णं, धनक्षये वर्धति जाठराग्निः आपत्सु वैराणि समुद्भवन्ति, छिद्रेष्वना बहुलीभवन्ति १८६ एको देवः केशवो वा शिवो वा, एक मित्रं भूपतिर्वा यतिवर्वा Page #23 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. २१ एको वासः पत्तने वा वने वा, एका भार्या सुन्दरी वादरीवा. यःपरस्य विषमं विचिन्तयेत्,प्राप्नुयात्स कुमतिः स्वयंहि तत् पूतना हरिवधार्थमाययो, पाप सैव वधमात्मनस्ततः १८८ मांसं मृगाणां दशनौ गजानां, मृगद्विषां चर्म फलं द्रुमाणाम् स्त्रीणां सुरूपंच नृणां हिरण्यं, एते गुणा वैरकरा भवन्ति १८९ विरला जानन्ति गुणान, विरलाः कुर्वन्ति निर्धने स्नेहम् विरलाः परकायरताः, परदुःखेनापि दुःखिता विरलाः १९० दधि मधुरं मधु मधुरं, द्राक्षा मधुरा सुधापि मधुरैव तस्य तदेव हि मधुरं, यस्य मनो यत्र संलग्नम् १९१ मृगा मृगैः संगमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरंगैः मूर्खाश्च मूईः सुधियः सुधीभिः,समानशीलव्यसनेषु सख्यम्. आपदि मित्रपरीक्षा, शूरपरीक्षा रणांगणे भवति विनये वंशपरीक्षा, स्त्रियः परीक्षा तु निर्धने पुंसि १९३ प्राप्य चलानधिकारान्, शत्रुषु मित्रेषु बन्धुवर्गेषु नापकृतं नोपकृतं, न सत्कृतं किं कृतं तेन १९४ अबला यत्र प्रबला, बालो राजा निरक्षरो मन्त्री नहि नहि तत्र धनाशा, जीवितुमाशापि दुर्लभा भवती १९५ दरिद्रता धीरतया विराजते, कुरूपता शीलगुणैर्विराजते कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते. Page #24 -------------------------------------------------------------------------- ________________ २२. संस्कृत काव्यानंद भाग १ लो. यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनैः तथा चतुर्भिःपुरुषःपरीक्ष्यते,श्रुतेन शीलेन गुणेन कर्मणा१९७ मात्रासमं नास्ति शरीरपोषणं, चिन्तासमं नास्ति शरीरशोषणम् भार्यासमं नास्ति शरीरतोषणं,विद्यासमं नास्ति शरीरभूषणम्. सहसा विदधीत न किया, मविवेकः परमापदां पदम वृणुते हि विमृश्यकारिणं,गुणलुब्धाः स्वयमेव संपदः १९९ अमितगुणोऽपि पदार्थो, दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो, गन्धेनोग्रेण लशुन इव २०० गवाशनानां श शृणोति वाक्यं, अहंहि राजन् वचनं मुनीनाम् न चास्य दोषो नचमद्गुणोवा, संसर्गजा दोषगुणाभवन्ति२०१ असज्जनः सज्जनसंगिसंगात्, करोति दुःसाध्यमपीह साध्यम् पुष्पाश्रयाच्छंभुशिरोऽधिरूढा,पिपीलिकाचुंबतिचन्द्रबिंबं२०२ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिन्तु कंकणेन विभाति कायः करुणापराणां, परोपकारैर्नतु चंदनेन २०३ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम्२०४ आशाया ये दासा, स्ते दासाः सन्ति सर्वलोकस्य आशा येषां दासी, तेषां दासायते लोकः २०५: दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् Page #25 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. २३ परोपि बन्धुत्वमुपैति दानै, दनं हि सर्वव्यसनानि हन्ति२०६ यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयन्ते २०७ त्यजन्ति मित्राणि धनैर्विहीनं, पुत्राश्च दाराश्च मुद्रणाच तमर्थवन्तं पुनराश्रयन्ति, अर्थो हि लोके पुरुषस्य बन्धुः २०८ बुभुक्षितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पायते नच्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जयनिष्फलागुणाः अंबा तुष्यति न मया, न स्नुषया सापि नांवया नमया अहमपि नतया न तया, वद राजन् कस्य दोषोऽयम् २१० अहो नु कष्टं सततं प्रवासः, ततोतिकष्टः परगेहवासः कष्टाधिका नीच जनस्य सेवा, ततोऽतिकष्टा धनहीनताच २११ शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः नीचो वदति न कुरुते, वदति न साधुः करोत्येव २१२ मृगमीनसज्जनानां, तृणजल संतोष विहितवृत्तीनाम् लुब्धकधीवरपिशुना, निष्कारण वैरिणो जगति विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानायच रक्षणाय . २१४ भिक्षो कन्था श्लथा ते, नहि शंफरिवधे, जाल मश्नासि मत्स्यान् ते वैद्योपदंशाः पिसि मधु समं, वेश्यया यासि वेश्याम् ? २१३ Page #26 -------------------------------------------------------------------------- ________________ २४ संस्कृत काव्यानंद भाग १ लो. दत्वांग्रिमूयरीणां, तव किमु रिपवो, भित्तिभेत्तास्मि येषाम् चोरोसि? द्युत हेतोः, त्वयि सकलमिदं नास्ति नष्टे विचारः बदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः पुनरपि बाल्यं कृतं जरया २१७ अनुचितकर्मारंभः, स्वजनविरोधो बलीयसा स्पर्धा प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि २१८ रोगी चिरप्रवासी, परान्नभोजी परावसथशायी . यज्जीवति तन्मरणं, यन्मरणं सोऽस्य विश्रामः २१९ इक्षोरणात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः तद्वत्सज्जनमैत्री, विपरीतानां च विपरीता २२० गन्धः सुवर्णे फलमिक्षुदण्डे, नाकारि पुष्पं खलु चन्दनेषु विद्वान्धनाढ्यो नतुदीर्घजीवी,धातुःपुरा कोऽपि नबुद्धिदोऽभूत् दारेषु किंचित्स्वजनेषु किंचत्, गोप्यं वयस्येषु सुतेषु किंचित् युक्तं नवा युक्तमिदं विचिन्त्य,वदेद्विपश्चिन्महतोऽनुरोधातू२२२ वने जले शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि२२३ मुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः २२४ वनेऽपि सिंहा मृगमांसभक्षिणो, बुभुक्षिता नैव तृणं चरन्ति Page #27 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. २५ एवं कुलीना व्यसनाभिभूता,न नीच कर्माणि समाचरन्ति. २२५ पिबन्ति नद्यः स्वयमेवनांमः,स्वयं न खादन्ति फलानि वृक्षाः नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः आज्ञा कीर्तिः पालनं सज्जनानां दानं भोगो मित्रसंरक्षणं च येषामेते षड्गुणान प्रवृत्ताकार्थस्तेषां पार्थिवोपाश्रयेण. २२७ सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायुः परेषु मैत्री स्वजनेषु वैरं,पश्यन्तु लोकाः कलि कौतुकानि.२२८ इतरकर्मफलानि यदृच्छया, विलिखितानि सहे चतुरानन . अरसिकेषु कवित्वनिवेदनम्,शिरसि मालिख मालिख मालिख स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं छादनमज्ञतायाः विशेषतस्तत्वविदों समाजे, विभूषगं मौनमांडितानाम् २३० भोगा न भुक्ता वयमेव भुक्ता, स्तपो न तप्तं वयमेव तताः कालो न यातो वयमेव याता, स्तृष्णान जीर्णा वयमेव जीर्णाः अर्थागमो नित्यमरोगिता च, प्रियाच भार्या प्रियवादिनी च वश्यश्च पुत्रोऽर्थकरी च विद्या,षड् जीवलोकस्य सुखानिराजन्, आहारनिद्राभयमैथुनं च, सामान्यमेतत्पशुभिर्नराणाम् धर्मोहि तेषामधिकोविशेषो,धर्मेणहीनाः पशुभिःसमाना:२३३ गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुण प्राप्य भवन्ति दोषाः आस्वायतोयाःप्रभवन्ति नयः,समुद्रमासाद्य भवन्त्यपेया२३४ Page #28 -------------------------------------------------------------------------- ________________ २६ संस्कृत काव्यानंद भाग १ लो. न धर्मशास्त्रं पठतीति कारणं, न चापि वेदाध्ययनं दुरात्मनः स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः मुजीर्णमन्नं सुविचक्षणःसुतः, सुशिक्षिता स्त्री नृपतिः सुसेवितः मुचिन्त्य चोक्तं मुविचार्य यत्कृतम्. सुदीर्घकालेऽपि न याति विक्रियाम् २३६ असंभवं हेममृगस्य जन्म, तथापि रामो लुलुभे मृगाय प्रायः समापनविपत्तिकाले, धियोऽपि पुंसां मलिना भवन्ति वरं वनं व्याघ्रगजेन्द्रसेवितं, जलेन हीनं बहुकंटकावृतम् तृणानि शय्या परिधानवल्कलं, न बन्धुमध्ये धनहीनजीवनम्. शास्त्राण्यधीत्यापि भवन्ति मूर्खा,यस्तुक्रियावान्पुरुषःस विद्वान सुचिन्तितं चौषधमातुराणां, न नाममात्रेण करोत्यरागम् २३९ न स्वल्पमप्यध्यवसायभीरोः, करोति विज्ञानविधिर्गुणं हि अन्धस्य किं हस्ततलस्थितोऽपि,प्रकाशयत्यर्थमिह प्रदीपः२४० श्लाध्यः स एको भुविमानवानां, स उत्तमः सत्पुरुषः स धन्यः यस्यार्थिनो वा शरणागता वा,नाशाभिभङ्गाद्विमुखाः प्रयान्ति. अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति. जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपिगृहे नजीवति. उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च नागाश्च वहन्ति देशिताः अनुक्तमप्यूहति पण्डितोजनः,परेगितज्ञानफलाहि बुद्धयः२४३ Page #29 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. २७ तृणानि नोन्मूलयति प्रभञ्जनो, मृदूनि नीचैः प्रणतान सर्वतः समुच्छ्रितानेव तरू-प्रबाधते महान्महत्येव करोति विक्रमम. संचिन्त्य संचिन्त्य तमुग्रदण्डं, मृत्युं मनुष्यस्य विचक्षणस्य वर्षाम्बुसिक्ताइव चर्मबन्धाःसर्वे प्रयत्नाःशिथिलीभवन्ति२४५ वनेऽपि दोषा:प्रभवन्ति रागिणां,गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः अकुत्सिते कर्मणि यःप्रवर्तते, निवृत्तरागस्य गृहं तपोवनम२४६ आत्मा नदि संयमतोयपूर्णा, सत्यावहा शीलतटा दयोमिः तत्राभिषेकं कुरु पाण्डुपुत्र,नवारिणा शुध्यति चान्तरात्मा२४७ गुणी गुणं वेत्ति न वेत्ति निर्गुणो,बलीबलं वेत्ति न वेत्ति निर्बलः शुको वसन्तस्य गुगं न वायसः,करी चसिंहस्य बलंनमूषकः२४८ धनैनिष्कुलीनाः कुलीना भवन्ति धनरापदं मानवा निस्तरंति धनेभ्यःपरोबांधवोनास्तिलोकेधनान्यर्जयध्वंधनान्यजयध्वम् व्योमैकान्तविहारिणोऽपि विहगाः संपाप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि २५० अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं आयुष्यं जललोलविंदुचपलं फेनोपमं जीवितम् धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटन धनिष्कास्य गुणं नवायस लावलं वेत्ति ना Page #30 -------------------------------------------------------------------------- ________________ - - २८ संस्कृत काव्यानंद भाग १ लो. पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते २५१ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर २५२ कौशेयं कृमिजं सुवर्णमुपलादिन्दीवरं गोमयात् । पंकात्तामरसं शशांक उदधे!पित्ततो रोचना काष्टादग्निरहे; फणादपि मणिर्वापि गोरोमतः प्राकाश्यं स्वगुणोदयेन गुणिनो यास्यन्ति किं जन्मना ? २५३ संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणाः संसगता देहिनाम् २५४ उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवः निस्तीर्णः सरितां पतिपतयो यत्नेन संसेविताः मन्त्राराधनतत्परेण मनसा नीताश्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुंच माम२५५ पंगो धन्यस्त्वमसि न गृहं यासि योर्थी परेषाम् धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि Page #31 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. २९ श्लाघ्यो मूकत्वमपि कृपणं स्तौषि नार्थाशया यः । स्तोतव्यस्त्वं बधिर न गिरं या खलानां श्रृणोषि २५६ दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्दुमभूषितम् दग्धा वायुसुतेन रावणपुरी लंका पुनः स्वर्णभूः दग्धः पंचशरः पिनाकपतिना तेनापियुक्तं कृतं दारिद्यं जनतापकारकमिदं केनापि दग्धं नहि २५७ दृश्यन्ते भुवि भूरि निम्बतरवः कुत्रापि ते चन्दनाः पाषाणैः परिपूरिता वसुमती वज्रो मणिर्दुर्लभः श्रूयन्ते करटारवाश्च सततं चैत्रे कुहूकूजितम् तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षितौ सज्जनाः २५८ जाडयं हीमति गण्यते व्रतरुचौ दंभः शुचौ कैतवम् शूरे निघृणता मुनौ विमतिता दैन्यं पियालापिनि तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनै कितः २५९ एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये तेऽमी मानुषराक्षसाः परहितं स्वार्थायनिघ्नन्ति ये ये निम्नन्ति निरर्थकं परहितं ते के न जानीमहे २६० कस्त्वं भद्र खलेश्वरोऽहमिह किं घोरे वने स्थीयते Page #32 -------------------------------------------------------------------------- ________________ ३० संस्कृत काव्यानंद भाग १ लो. शार्दूलादिभिरेव हिंस्रपशुभिः खायोऽहमित्याशया कस्मात्कष्टमिदं त्वया व्यवसितं मद्देहमांसाशिनः प्रत्युत्पन्नमांसभक्षणधिय; ते नन्तु लोकानिति २६१ गात्रं संकुचितं गतिविंगलिता भ्रष्टा च दन्तावलिः दृष्टिनश्यति वर्धते बधिरता वक्रंच लालायते . वाक्यं नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते . हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यमित्रायते २६२ दौमन्त्र्यान्नृपतिविनश्यति यतिः संगात्सुतो लालनातू विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् हीमद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयात मैत्रीचाप्रणयात्समृद्धिरनयात्यागात्प्रमादाद्धनम् २६३ पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासंभवा लक्षितः अक्षश्चापि युधिष्ठिरेण रमता प्राप्तो ह्यनर्थः कथं प्रत्यासनविपत्तिमूढमनसां प्रायो मतिः क्षीयते २६४ यद्धात्रा निजभालपट्टलिखितं स्ताकं महद्वा धनम्। तत्यामोति मरुस्थलेऽपि नितरां मेरौ ततो नाऽधिकम् तद्धीरो भव वितवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् २६५ Page #33 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. ३१ भग्नाशस्य करंडपीडिततनोलानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः तृप्तस्तपिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेवहि नृणां वृद्धौ क्षये कारणम् २६६ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् २६७ मान्धाता स महीपतिः क्षितितलेलंकारभूतो गत; सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्येचापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन नैकेनापि समं गता वसुमती मुंज त्वया यास्यति २६८ शान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपना क्लेशान्न तप्तं तपः ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्मकृतं यदेव मुनिभिस्तैस्तैःफलैर्वचितम् २६९ व्यालं बालमृणालतन्तुभिरसौ रोर्बु समुज्जृम्भते छेत्तुं वज्रमणीञ्छिरीषकुसुमपान्तेन सनह्यते माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते Page #34 -------------------------------------------------------------------------- ________________ ३२ संस्कृत काव्यानंद भाग १ लो. नेतुं वाग्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः २७० केयूरा न विभूषयन्ति पुरुषं हारा न च-द्रोज्ज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् २७१ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूजिता न तु धनं विद्याविहीनःपशुः २७२ दाक्षिण्यं स्वजने दया परजने शाठयं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थिति: २७३ रेरे चातक सावधानमनसा मित्र क्षणं श्रूयतामम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः केचिद् ष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः २७४ लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् Page #35 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. ३३ सौजन्यं यदि किं निजैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना २७५ तृष्णां छिन्धि भज क्षमा जहि मदं पापे रतिं मा कृथाः सत्यं ब्रह्मनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय स्वान्गुणान् कीति पालय दुःखिते कुरु दया मेतत्सतां लक्षणम् २७६ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोप्यवलेोऽकते यदि दिवा सूर्यस्य किं दूषणम् धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं सद्बोधाद् द्रवति न दुष्ट हृदयं बोधस्य किं दूषणम् २७७ को लाभो गुणिसंगमः किमसुखं प्राज्ञेतरैः संगतिः का हानिः समयच्युतिनिपुणता का धर्मतत्त्वे रतिः कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् २७८ आशानामनदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी मोहावर्तसुदुस्तराऽतिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता. विशुद्धमनसो नन्दन्ति योगीश्वराः २७९ यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो Page #36 -------------------------------------------------------------------------- ________________ २८० संस्कृत काव्यानंद भाग १ लो. यावच्चैन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः आत्मश्रेयसि तावदेव विदुषा कार्य : प्रयत्नो महासंदीप्ते भवने तु क्रूपखननं प्रत्युग्रमः कीदृशः भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् २८१ वरं मौनं कार्य न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि वरं भिक्षाशित्वं न च परधनास्वादनसुखम् विजेतव्या लंका चरणतरणीयो जलनिधिः विपक्ष: पौलस्त्यो रणभुवि साहायश्च कपयः तथाप्येको रामः सकलमवधीद्राक्षसकुलम् क्रियासिद्धिः सत्वे भवति महतां नोपकरणे, यदा किंचिज्ज्ञेोऽहं द्विपइव मदान्धः समभवम् तदा सर्वज्ञस्मीत्यभवदवलिप्तं मम मनः यदा किंचित् किंचित् बुधजन सकाशादवगतम तदा मूर्खोस्मीति ज्वर इव मदो मे व्यपगतः ३४ २८२ २८३ २८४ Page #37 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. ३५ क्वचिद्भुमौ शय्या कचिदपि च पर्यकशयनम् कचिच्छाकाहारी कचिदपि च शाल्योदनरुचिः कचित्कंथाधारी कचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं नच मुखम् ३८५ अवश्यंयातारश्चिरवरमुषित्वापि विषयाः वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् व्रजन्तः स्वातंत्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति २८६ अजानन्माहात्म्यं पततु शलभो दीपदहने समीनोप्यज्ञानादडिशयुतमश्नातुपिशितम् विजानन्तो प्येते वयमिहविपज्जालजटिलान् न मुंचामः कामानहहगहनो मोहमहिमा क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तहीनः क्षणमपि च संपूर्णविभवः जराजीणै रंगैनटइव वलीमण्डिततनुनरः संसारांते विशति यमधानीजवनिकाम् २८८ मही रम्या शय्या विपुलमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिल: स्फुरदीपश्चन्द्रो विरतिवनितासंगमुदितः Page #38 -------------------------------------------------------------------------- ________________ २८९ २९० ३६ संस्कृत काव्यानंद भाग १ लो. सुख शान्तः शेते मुनिरतनुभूतिप इव क्वचिद्वीणावादः कचिदपि च हाहेति रुदितं कचिनारी रम्या कचिदपि जराजर्जरवपुः . कचिद्विद्वद्गोष्ठी कचिदपि सुरामत्तकलहो न जाने संसारः किममृतमयः किं विषमयः शौर्हतास्तु रिपवो न हता भवनित प्रज्ञाहतास्तु नितरां सुहता भवन्ति । शस्त्रं निहन्ति पुरुषष्य शरीरमेकं . प्रज्ञा कुलं च विभवं च यशश्च हन्ति हंसो न भाति बलिभोजनवृन्दमध्ये गोमायु मण्डलगतो न विभाति सिंहः जात्यो न भाति तुरगः खरयूथमध्ये विद्वान भाति पुरुषेषु निरक्षरेषु उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी वेन देयमिति कापुरुषा वदन्ति दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोत्र दोषः जाडयं धियो हरति सिंचति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति २९१ २९३ Page #39 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिःकथय किं न करोति पुंसाम् यो नात्मजे नच गुरौ नच बन्धुवर्गे दीने दयां न कुरुते नच भृत्यवर्गे किं तस्य जीवितफलं हि मनुष्यलोके काकोपि जीवति चिराय बलिं च भुंक्ते सर्पाः पिबन्ति पवनं नच दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति कन्दैः फलैर्मुनिवराः क्षपयन्ति कालम् संतोष एव पुरुपस्य परं निधानम् भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् वस्त्रं सुजीर्णशतखण्डमयी च कंथा हाहा तथापि विषयान् न जहाति चेतः उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वहिः विकसति यदि पद्म पर्वताग्रे शिलायाम् न भवति पुनरुक्तं भाषितं सज्जनानाम् घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् Page #40 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. छिन्नं छिन्नं पुनरपि पुनः स्वादुचवेक्षुकाण्डम् दग्धं दग्धं पुनरपि पुनः कांचनं कान्तवर्णम् न प्राणान्ते प्रकृतिविकृतिर्जायते सञ्जनानाम् . वैद्या बदन्ति कफपित्तमरुद्विकारान ज्यातिविदो ग्रहगतिं परिवर्तयन्ति भूताभिषंग इति भूतविदो वदन्ति मारब्धकर्म बलवन्मुनयो वदन्ति । भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य कृत्स्नाच भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वमुकृतं विपुलं नरस्य नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव नच यकृतापि सेवा भाग्यानि पूर्वतपसा खलु संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः दाता न दापयति दापयिता न दत्ते यो दानदापनपरो मधुरं न वक्ति । दानं च दापनमयो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुषे वसन्ति Page #41 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. प्रारभ्यते न खलु विघ्नभयेन नीचैः मारभ्य विघ्नविहता विरमन्ति मध्याः विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः मारब्धमुत्तमजना न परित्यजन्ति नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता मौनान्मुकः प्रवचनपटुर्वातुलो जल्पको वा धृष्टः पार्श्वे वसति च तदा दूरतश्चाप्रगल्भः क्षान्त्याभीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः चेतोहरा युवतयः सुहृदोनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः गर्जन्ति दन्तिनिवहास्तरलास्तुरंगाः संमीलने. नयनयोर्न हि किंचिदस्ति केचिद्वदन्ति धनहीनजनो जघन्यः केचिद्वदन्ति गुणहीनजनो जघन्यः न्यासो वदत्यखिलवेदपुराणविज्ञो ३९ ३०४ ३०५ ३०६ ३०७ Page #42 -------------------------------------------------------------------------- ________________ . ३०८. ४० संस्कृत काव्यानंद भाग १ लो. नारायणस्मरणहीनजनो जघन्यः यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः अस्मत्कृते च परितुष्यति काचिदन्या धिक तां च तं च मदनं च इमां च मां च ३०९ पापानिवारयति योजयते हिताय गुह्यं च गृहति गुणान्प्रकटीकरोति आपद्तं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः । पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरक्चक्रवालम् नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिताभिहिताभियोगाः मनसि वचसि काये पुण्यपीयूषपूर्णात्रिभुवनमुपकार श्रेणिभिः पीणयन्तः परगुणपरमाणूपर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः । ३१२ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ३१० Page #43 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो.. ४१ अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ३१३ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन अतिरभसकृतानां कर्मणामाविपत्तेभवति हृदयदाही शल्यतुल्यो विपाकः ३१४ कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः कर्षन्ति भूरिविषयाश्च न लोभपाशैलोकत्रयं जयति कृत्स्नमिदं स धीरः स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् खवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं मुहुनिन्यं रूपं कविजनविशेषैर्गुरु कृतम् व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शव इव प्रहरन्ति देहम् आयुः परिस्रवति भिन्नघटादिवाम्मो लोकस्तथाप्यहितमाचरतीति चित्रम् । अपार संसार समुद्र मध्ये, निमज्जतो मे शरणं किमस्ति Page #44 -------------------------------------------------------------------------- ________________ ४२ संस्कृत काव्यानंद भाग १ लो. गुरो कृपालो कृपया वदैत,द्विश्वेशपादां बुजदीर्घ नौका ३१८ बद्धोहि कोयो विषयानुरागी, कोवा विमुक्तो विषये विरक्तः कोवास्ति घोरो नरकः स्वदेह, स्तृष्णा क्षयःस्वर्ग पदंकिमस्ति. संसार हृत्कस्तु निजात्म बोधः, को मोक्षहेतुः प्रथितःसएव द्वारं किमेकं नरकस्य नारी, का स्वर्गदा प्राणभृता महिंसा३२० शेते सुखंकस्तु समाधिनिष्ठो, जागर्तिकोवा सदसद्विवेकी केशत्रवः संति निजेंद्रियाणि, तान्येव मित्राणि जितानिकानि. कोवा दरिद्रोहि विशाल तृष्णः,श्रीमांश्च कोयस्य समस्तितोषः जीवन्मृतो कस्तु निरुद्यमोयः, कावाऽमृतास्यात्सुखदानिराशा. पाशोहि कोयो ममताभिधानः, संमोहयत्येव सुरेवकास्त्री कोवा महांधो मदनातुरोयो, मृत्युश्चको यद्ययशःस्वकीयम् ३२३ कोवा गुरुयोहि हितोपदेष्टा, शिष्यस्तु कोयो गुरुभक्त एव कोदीर्घरोगो भव एव साधो, किमौषधं तस्य विचार एव ३२४ किंभूषणा श्रेषणमस्ति शीलं, तीर्थपरं किंस्वमनो विशुद्ध किमत्रहेयं कनकंचकान्ता, श्राव्यं सदा किंगुरुवेद वाक्यम्३२५ केहेतवो ब्रह्मगतेस्तु संति, सत्संगतिर्दान विचारतोषाः केसन्ति संतोऽखिल वीतरागा, अपास्त मोहा:शिव तत्वनिष्ठाः कोवा ज्वरःप्राणभृतांहि चिंता,मूोस्ति कोयस्तु विवेकहीनः कार्या मयाका परमात्म भक्तिः, किंजीवनंदोष विवर्जितंयत्. Page #45 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. ४३ विद्याहिका ब्रह्मगतिप्रदाया, बोधोहि कोयस्तु विमुक्ति हेतुः कोलाभ आत्मावगमा हियोवै, जितं जगत् केनमनोहियेन३२८ शूरान्महाशूरतमोस्ति कोवा, मनोज बाणैर्व्यथितो नयस्तु पाज्ञोऽतिधीरश्च समोस्ति कोवा प्राप्तोन मोहं ललना कटाक्षैः विषाद्विषं किंविषयाःसमस्ता, दःखी सदाको विषयानरागी धन्यास्ति कोयस्तु परोपकारी,कापूजनीयो ननुतत्वनिष्ठः३३० सर्वास्ववस्था स्वपिकिन कार्य,किंवा विधेयं विदुषांप्रयत्नात् स्नेहश्च पापं पठनंच धर्मः, संसार मूळहि किमस्ति चिंता३३१ विज्ञान्महा विज्ञतमोस्ति कोवा, नार्या पिशाच्या नचवंचितोयः काशृंखला प्राणभृतांच नारी,दिव्यंव्रतं किंचनिरस्त दैन्यं३३२ चासोनसंगः सहकैविधेयो, मूर्खश्च पापैश्च खलैश्च नीचैः मुमुक्षुणा किंचरितं विधेयं,सत्संगतिनिर्ममतेशभक्तिः ३३३ मूकोस्ति कोवा बधिरश्च कोवा, युक्तं नवक्तुं समये समर्थः तथ्यं सुपथ्यं न शृणोति वाक्यं,केदस्यवः संति कुवासनाख्या: शत्रोर्महाशत्रुतरोस्ति कोवा, कामःस कोपानृतलोभ तृष्णः नपूर्यतेको विषयैः सएव, किं दुःखमूळं ममताभिधानम्३३५ किंमंडनं साक्षरता मुखस्य, सत्यंच किंभूतहितं तदेव त्यक्त्वा सुखं किंस्त्रियमेव सम्यक्,देयपरं किंत्वभयंसदैव ३३६ कस्यास्तिनाशे मनसोहि मोक्षः,कसर्वथा नास्तिभयं विमुक्तौ Page #46 -------------------------------------------------------------------------- ________________ ४४ संस्कृत काव्यानंद भाग १ लो. शल्यं परं किंनिजमूर्खतैव, केके उपास्या गुरुवश्च वृद्धाः ३३७ बुद्धयानबुद्धं परिशिष्यते किं, शिवं प्रशांतं सुखबोधरूपम् ज्ञातेतुकस्मिन्विदितं जगत्स्यात्सर्वात्मके ब्रह्मणि पूर्णरूपे ३३८ किंदुर्लभं सद्गुरुरस्ति लोके, सत्संगति ब्रह्म विचारणाच त्यागोहि सर्वस्य निजात्मबोधः, कोदुर्जयः सर्वजनैर्मनोज : ३३९ पशेः पशुः कोनकरोति धर्म, प्राधीत शास्त्रोपिनप्राप्तबोधः जातोस्त कोयस्य पुनर्नजन्म, कोवा मृतोयस्य पुनर्नमृत्युः विद्युचलं किंवनयौवनायु, दर्शनंपरं किंचसुपात्रदत्तं कंठगतैरप्यसुभिर्न कार्य, किंवा विधेया विमला शिवार्चा ३४१ कादुस्त्यजा सर्व जनैर्दुराशा, विद्याविहीनः पशुरस्तिकोवा अहर्निशकिं परिचिन्तनीयं, संसारमिथ्यात्व शिवात्मतत्वे ३४२ त्रिवर्गसंसाधन मंतरेण, पशोरिवायुर्विफलं नरस्य तत्रापिध प्रवरं वदति, न तं विना यद्भवतोऽर्थकामौ ३४३ यः प्राप्य दुःप्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः शपबंधेन स लब्धमधौ, चिंतामणि पातयति प्रमादातू. स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्यैधभारम् चिंतारत्नं विकरति कराद्वायसोड्डायनार्थ यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ३४५ Page #47 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. ते धत्तरतरं वपंति भवने प्रोन्मूल्य कल्पद्रुमं चिंतारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः विक्रीयं द्विरदं गिरींद्रसदृशं क्रीणति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावंति भोगाशया ३४६ अपारे संसारे कथमपि समासाद्य नृभवं न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ३४७ मानुष्यं विफलं वदंति हृदयं व्यर्थ वृथा श्रोत्रयोनिर्माणं गुणदोषभेदकलनां तेषामसंभाविनीम् । दुर्वारं नरकांधकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयोदयारसमयो येषां न कर्णातिथिः ३४८ यदि ग्रावा तोये तरति तरणिर्यादयते प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि यदि मापीठं स्यादुपरि सकलस्थापि जगतः प्रसूते सत्त्वानां तदपि न वधः कापि सुकृतम् ३४९ आयुर्दीधतरं वपुर्वरतरं गोत्र गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् आरोग्यं विगतांतरं त्रिजगति श्लाघ्यत्वमल्पेतरम् Page #48 -------------------------------------------------------------------------- ________________ ४६ संस्कृत काव्यानंद भाग १ लो. संसारांबुनिधि करोति सुतरं चेतः कृपादातरम् ३५० विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तंभनम् श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीतः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ३५१ हरति कुलकलंकं लुपते पापपंकं सुकृतमुपचिनोति श्लाध्यतामातनोति नमयति सुरवर्ग हंति दुष्टोपसर्ग रचयति शुचिशीलं स्वर्गमोक्षौ सलीलम् ३५२ मायामविश्वासविलासमंदिरं, दुराशयो यः करुते धनाशया सोऽनर्थसाथै न पतंतमीक्षते, यथा बिडालो लगुडं पयः पिबन्. वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झंपापातो ज्वलदनलकुंडे विरचितः वरं प्रासमांतः सपदि जठरांतर्विनिहिता न जन्यं दौर्जन्यं तदपि विपदां सम विदुषा ३५४ दायादाः स्पृहयंति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षाणात् अंभः प्लावयति सितौ विनिहतं यक्षा हरंति हठात् दुर्वृत्तास्तनया नयंति निधनं धिग्बधीनं धनम् ३५५ Page #49 -------------------------------------------------------------------------- ________________ संस्कृत काव्यानंद भाग १ लो. अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः स एव सेव्यः स्वहितैषिणा गुरुः स्वयं तरं स्तारयितुं क्षमः परम् न देवं नादेवं न शुभगुरुमेवं न कुगुरुं न धर्म ना धर्म न गुणपरिणद्धं न विगुणम् न कृत्यं ना कृत्यं नहितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः असत्यमप्रत्ययमूलकारणं कुवासनास समृद्धिवारणम् विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् विधाय मायां विविधैरुपायैः परस्य ये वञ्चन माचरन्ति ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखा स्वमेव ३५९ जातः कल्पतरु पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः सन्निधिम् विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्ग श्रियः ये संतोषमशेषदोषदहनध्वंसाम्बुदं विभ्रते भजभगवंतंभजभगवंतं भजभगवंतंमूढमते, प्राप्तेसन्निहितेमरणे नहिन हिरक्षति डुकृञकरणे. भज. ३६१ बालस्तावत्क्रीडासक्त स्तरुणस्तावत्तरुणीरक्तः, वृद्धस्तावचिंतामनः परेब्रह्मणिकोपिनलग्न; अंगंगलितं पलितंमुंडं दशनविहीनंजातंतुंडं, ४७ ३५७ ३६० भज. ३६२ Page #50 -------------------------------------------------------------------------- ________________ 48 संस्कृत काव्यानंद भाग 1 लो.. वृद्धोयातिगृहीत्वादडं तदपिनमुंचत्याशापिंडं. भज. 363 पुनरपिजननंपुनरपिमरणं पुनरपिजननीजठरेशयनं, इहसंसारेखलुदुस्तारे कृपयाऽपारेपाहिमुरारे. भज. 364 दिनमपिरजनीसायंप्रातः शिशिरवसंतौपुनरायातः काल क्रीडतिगच्छत्यायु स्तदपिनमुंचत्याशावायुः भज.३६५ जटिलोमुंडितलंचितकेशः काषायांबरबहुधृतवेषः, पश्यन्नपिनचपश्यतिलोक उदरनिमित्तंबहुकृतशोकः भज.२६६ वयसिगतेकाकामविकारः शुष्केनीरेकःकासारः, क्षीणेवित्तेक परिवारो ज्ञातेतत्वेकःसंसारः भज. 367 गेयंगीतानामसहस्रं ध्येयंश्रीपतिरूपमजलं, नेयंसज्जनसंगतिचितं देयंदीनजनायचवितं भज. 368 कोहंकस्त्वंकुतआयातः कामेजननीकोमेतातः, इतिपरिभावयसर्वमसारं सर्वेत्यक्त्वा स्वमविचारं. भज. 369 कातेकांताकस्तेपुत्र; संसारोयमतीवविचित्रः, कस्यत्वंकःकुतआयात स्तत्वंचिंतयमनसिभ्रातः भज. 370 सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु, माकश्चिदुःखभाग्भवेत् 371