________________
४ संस्कृत काव्यानंद भाग १ लो. न कश्चिदपि जानाति किं कस्य श्वो भविष्यति अतः श्वःकरणीयानि कुर्यादद्यैव बुद्धिमान २६ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च बंचनं चापमानं च मतिमान प्रकाशयेत् अवृत्तिकं त्यजेद्देशं वृति सेोपद्रवां त्यजेत् । त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेन् त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् चिन्तनीया हि विपदामादावेव प्रतिक्रियाः न कूपखननं युक्तं प्रदीप्ते वहिना गृहे पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ३१ न द्विषन्ति न याचन्ते परनिन्दां न कुर्वते अनाहूता न चायान्ति तेनाश्मानेोऽपि देवताः उपभोक्तं न जानाति श्रियं प्राप्यापि मानवः आकंठं जलमग्नोऽपि श्वा हि लेट्येव जिह्वया । आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः अधना दातुमिच्छन्ति वृद्धा नारी प्रतिव्रता क्वचिद्रुष्टाः कचित्तुष्टा स्तुष्टा रुष्टा क्षणेक्षणे