________________
संस्कृत काव्यानंद भाग १ लो. आपत्काले तु मित्राणि भार्या च विभवक्षये पिपीलिकार्जितं धान्यं मक्षिकासंचितं मधु लुब्धेनोपार्जितं द्रव्यं समूलं च विनश्यति मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च असतां संप्रयोगेन पंडितोप्यवसीदति. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् नीचादप्युत्तमां विद्या स्त्रीरत्नं दुष्कुलादपि लुब्धमर्थेन गृह्णीयात् क्रुद्धमंजलिकर्मणा मूर्ख छंदानुरोधेन तत्वार्थेन च पण्डितम् वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः आगतं समयं वीक्ष्य भिन्द्यादघटमिवाश्मना सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डितः अर्धेन कुरुते कार्य सर्वनाशो न जायते उत्तमा आत्मनाख्याताः पितुः ख्याताश्च मध्यमाः अधमा मातुलाख्याताः श्वशुरावाधमाधमाः । न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते चलत्येकेन पादेन तिष्ठत्यन्येन पंडितः । नापरीक्ष्य परं स्थानं पूर्वमायतनं त्यजे
. २५