________________
२ संस्कृत काव्यानंद भाग १ लो. को न याति वशं लोके मुखे पिण्डेन पूरितः मृदंगो मुखलेपेन करोति मधुरध्वनिम्. सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ब्राह्मणोऽग्नियमो राजा पयोधिरुदरं गृहम्. परोपि हितकृद्धन्धुः बन्धुरप्यहितः परः अहितो देहजो व्याधिः हितमारण्यमौषधम् दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेजलम् . शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया श्रियोऽनुकूलदानेन लजया च कुलांगनाः अश्व नैव गजं नैव व्याघ्र नैवच नैवच अजापुत्रं बलिं दद्यात् देवो दुबलघातक.. भवन्ति नरकाः पापात् पापं दारिद्यसंभवम् द्रारिद्यमप्रदानेन तस्मादानपरो भवेत्। वनानि दहतो वह्नः सखा भवति मारुतः स एक दोपनाशाय कृशे कस्यास्ति सौहृदम् निःसारस्य पदार्थस्य प्रायेणाडंबरो महान् नहि तादृग् ध्वनिः स्वर्णे यादक कांस्ये प्रजायते १५ जानीयात् संगरे भृत्यान् बान्धवान व्यसनागमे