________________
संस्कृत काव्यानंद भाग १ लो. २९ श्लाघ्यो मूकत्वमपि कृपणं स्तौषि नार्थाशया यः । स्तोतव्यस्त्वं बधिर न गिरं या खलानां श्रृणोषि २५६ दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्दुमभूषितम् दग्धा वायुसुतेन रावणपुरी लंका पुनः स्वर्णभूः दग्धः पंचशरः पिनाकपतिना तेनापियुक्तं कृतं दारिद्यं जनतापकारकमिदं केनापि दग्धं नहि २५७ दृश्यन्ते भुवि भूरि निम्बतरवः कुत्रापि ते चन्दनाः पाषाणैः परिपूरिता वसुमती वज्रो मणिर्दुर्लभः श्रूयन्ते करटारवाश्च सततं चैत्रे कुहूकूजितम् तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षितौ सज्जनाः २५८ जाडयं हीमति गण्यते व्रतरुचौ दंभः शुचौ कैतवम् शूरे निघृणता मुनौ विमतिता दैन्यं पियालापिनि तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनै कितः २५९ एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये तेऽमी मानुषराक्षसाः परहितं स्वार्थायनिघ्नन्ति ये ये निम्नन्ति निरर्थकं परहितं ते के न जानीमहे २६० कस्त्वं भद्र खलेश्वरोऽहमिह किं घोरे वने स्थीयते