SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ संस्कृत काव्यानंद भाग १ लो. ३३ सौजन्यं यदि किं निजैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना २७५ तृष्णां छिन्धि भज क्षमा जहि मदं पापे रतिं मा कृथाः सत्यं ब्रह्मनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय स्वान्गुणान् कीति पालय दुःखिते कुरु दया मेतत्सतां लक्षणम् २७६ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोप्यवलेोऽकते यदि दिवा सूर्यस्य किं दूषणम् धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं सद्बोधाद् द्रवति न दुष्ट हृदयं बोधस्य किं दूषणम् २७७ को लाभो गुणिसंगमः किमसुखं प्राज्ञेतरैः संगतिः का हानिः समयच्युतिनिपुणता का धर्मतत्त्वे रतिः कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् २७८ आशानामनदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी मोहावर्तसुदुस्तराऽतिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता. विशुद्धमनसो नन्दन्ति योगीश्वराः २७९ यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
SR No.002466
Book TitleSanskrit Kavyanand Part 01
Original Sutra AuthorN/A
AuthorNanchandra Muni
PublisherAjramar Jain Vidyashala
Publication Year
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy