________________
३२
संस्कृत काव्यानंद भाग १ लो. नेतुं वाग्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः २७० केयूरा न विभूषयन्ति पुरुषं हारा न च-द्रोज्ज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् २७१ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूजिता न तु धनं विद्याविहीनःपशुः २७२ दाक्षिण्यं स्वजने दया परजने शाठयं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थिति: २७३ रेरे चातक सावधानमनसा मित्र क्षणं श्रूयतामम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः केचिद् ष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः २७४ लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम्