________________
संस्कृत काव्यानंद भाग १ लो. ३१ भग्नाशस्य करंडपीडिततनोलानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः तृप्तस्तपिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेवहि नृणां वृद्धौ क्षये कारणम् २६६ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् २६७ मान्धाता स महीपतिः क्षितितलेलंकारभूतो गत; सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्येचापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन नैकेनापि समं गता वसुमती मुंज त्वया यास्यति २६८ शान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपना क्लेशान्न तप्तं तपः ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्मकृतं यदेव मुनिभिस्तैस्तैःफलैर्वचितम् २६९ व्यालं बालमृणालतन्तुभिरसौ रोर्बु समुज्जृम्भते छेत्तुं वज्रमणीञ्छिरीषकुसुमपान्तेन सनह्यते माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते