________________
संस्कृत काव्यानंद भाग १ लो. २५ एवं कुलीना व्यसनाभिभूता,न नीच कर्माणि समाचरन्ति. २२५ पिबन्ति नद्यः स्वयमेवनांमः,स्वयं न खादन्ति फलानि वृक्षाः नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः आज्ञा कीर्तिः पालनं सज्जनानां दानं भोगो मित्रसंरक्षणं च येषामेते षड्गुणान प्रवृत्ताकार्थस्तेषां पार्थिवोपाश्रयेण. २२७ सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायुः परेषु मैत्री स्वजनेषु वैरं,पश्यन्तु लोकाः कलि कौतुकानि.२२८ इतरकर्मफलानि यदृच्छया, विलिखितानि सहे चतुरानन . अरसिकेषु कवित्वनिवेदनम्,शिरसि मालिख मालिख मालिख स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं छादनमज्ञतायाः विशेषतस्तत्वविदों समाजे, विभूषगं मौनमांडितानाम् २३० भोगा न भुक्ता वयमेव भुक्ता, स्तपो न तप्तं वयमेव तताः कालो न यातो वयमेव याता, स्तृष्णान जीर्णा वयमेव जीर्णाः अर्थागमो नित्यमरोगिता च, प्रियाच भार्या प्रियवादिनी च वश्यश्च पुत्रोऽर्थकरी च विद्या,षड् जीवलोकस्य सुखानिराजन्, आहारनिद्राभयमैथुनं च, सामान्यमेतत्पशुभिर्नराणाम् धर्मोहि तेषामधिकोविशेषो,धर्मेणहीनाः पशुभिःसमाना:२३३ गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुण प्राप्य भवन्ति दोषाः आस्वायतोयाःप्रभवन्ति नयः,समुद्रमासाद्य भवन्त्यपेया२३४