________________
२६ संस्कृत काव्यानंद भाग १ लो. न धर्मशास्त्रं पठतीति कारणं, न चापि वेदाध्ययनं दुरात्मनः स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः मुजीर्णमन्नं सुविचक्षणःसुतः, सुशिक्षिता स्त्री नृपतिः सुसेवितः मुचिन्त्य चोक्तं मुविचार्य यत्कृतम्. सुदीर्घकालेऽपि न याति
विक्रियाम् २३६ असंभवं हेममृगस्य जन्म, तथापि रामो लुलुभे मृगाय प्रायः समापनविपत्तिकाले, धियोऽपि पुंसां मलिना भवन्ति वरं वनं व्याघ्रगजेन्द्रसेवितं, जलेन हीनं बहुकंटकावृतम् तृणानि शय्या परिधानवल्कलं, न बन्धुमध्ये धनहीनजीवनम्. शास्त्राण्यधीत्यापि भवन्ति मूर्खा,यस्तुक्रियावान्पुरुषःस विद्वान सुचिन्तितं चौषधमातुराणां, न नाममात्रेण करोत्यरागम् २३९ न स्वल्पमप्यध्यवसायभीरोः, करोति विज्ञानविधिर्गुणं हि अन्धस्य किं हस्ततलस्थितोऽपि,प्रकाशयत्यर्थमिह प्रदीपः२४० श्लाध्यः स एको भुविमानवानां, स उत्तमः सत्पुरुषः स धन्यः यस्यार्थिनो वा शरणागता वा,नाशाभिभङ्गाद्विमुखाः प्रयान्ति. अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति. जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपिगृहे नजीवति. उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च नागाश्च वहन्ति देशिताः अनुक्तमप्यूहति पण्डितोजनः,परेगितज्ञानफलाहि बुद्धयः२४३