________________
संस्कृत काव्यानंद भाग १ लो.
पावको लोहसंगेन मुद्गरैरभिहन्यते को देशः कानि मित्राणि कः कालः का व्ययागमा काहं काच मे शक्ति रिति चिन्त्यं मुहुर्मुहुः उदघाटित नवद्वारे पंजरे विहगो ऽनिलः यत्तिष्ठति तदाश्वर्य प्रयाणे विस्मयः कुतः प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया तृप्ताः कामेन बाध्यन्ते प्राणिने। निशि निद्रया विद्वानेव विजानाति विद्वज्जनपरिश्रमम् नहि बन्ध्या विजानाति गुर्वी प्रसववेदनाम् यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति स एव प्रच्युतः स्थानात् शुनापि परिभूयते स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः इति संचिन्त्य मतिमान् स्वस्थानं न परित्यजेत् आदरेण यथा स्तौति धनवन्तं धनेच्छया तथा द्विश्वकर्तारं को न मुच्येत बन्धनात् स्वमस्तकसमारूढं मृत्युं पश्येज्जना यदि आहारोऽपि न रावेत, किमुतान्या विभूतयः
- १५
१३०
१३१
१३२
१३३
१३४
१३५
१३६
१३७
१३८
१३९